________________
जई - जीयकप्पो
उपशमनं कर्त्तव्यम् । यः पुनरुपेक्षां करोति तस्य प्रायश्चित्तम् । तच्चानया गाथया प्रतिपाद्यते। यथा—उपेक्षायां लघुको मासः । अधिकरणं कुर्वतो दृष्ट्वा मध्यस्थभावेन तिष्ठति, अन्येषामप्युपदेशं प्रयच्छति–परप्रत्ययः कर्मबन्धोऽस्माकं न भवति, परकृतस्य कर्मण आत्मनि सङ्क्रमाभावात् । अधिकरणनिवारणेन च स्वाध्यायध्यानादेः स्वार्थस्य भङ्गपातो भवतो भवति । अतो ज्ञानदर्शनचारित्ररूपे पारमार्थिके स्वकार्ये एव यतध्वम्, मा परकार्ये अधिकरणोपशमनादौ स्वार्थपरिमन्थकारित्वात् परार्थकरणस्येत्यादिरूपा उपेक्षा तत्र लघुमासः । उपहसतो ऽधिकरणं कुर्वतो दृष्ट्वा उपहासवचनानि भाषमाणस्य अट्टहासैरुपहासं कुर्वाणस्य च स एव मासो गुरुकः स्यात् । उत्तुदत उत् प्राबल्येन तुदतः प्रेरयतोऽधिकरणे उत्तरदानशिक्षापणमुत्तेजनं च कुर्वाणस्येत्यर्थः लघुकाश्चत्वारः । सहायकत्वे सदृशदोषः । द्वयोः कलहायमानयोर्मध्यादेकस्य पक्षे भूत्वा यः कोऽपि वाचा हस्ताभ्यां पद्भ्यां दन्तैर्लगुडादिभिर्वा साहाय्यं करोति, सोऽधिकरणकारिणा सह समानदोषः । ततो यत्प्रायश्चित्तमधिकरणकारिणः स्यात्, साहाय्यकारिणोऽपि तत् स्यात् समानदोषत्वादिति भावः ।। ५८ । । अधिकरणकारिणस्तु प्रायश्चित्तमिदम् —
चउरो चउगुरु अहवा विसेसिआ हुति भिक्खुमाईणं । अहवा चउगुरुगाई हवंति उ छे अनिट्टवणा । । ५९ ।। (बृ०क० २७००) व्याख्या - भिक्षुवृषभोपाध्यायाचार्याणामधिकरणं कुर्वतां प्रत्येकं चतुर्गुरुकं ततश्चत्वारश्चतुर्गुरुका भवन्ति । अथवा त एव चतुर्गुरुकाः तपःकालविशेषिता भवन्ति । तद्यथा - भिक्षोश्चतुर्गुरुकं तपसा कालेन च लघुकम् । वृषभस्य तदेव कालगुरुकम् । उपाध्यायस्य तपोगुरुकम् । आचार्यस्य तपसा कालेन च गुरुकम् । अथवा चतुर्गुरुकादारभ्य छेदे निष्ठापना कर्त्तव्या । तद्यथा - भिक्षुरधिकैरोति ततस्तस्य चतुर्गुरुकम् । वृषभस्य षड्लघुकम्, उपाध्यायस्य षड्गुरुकम्, आचार्यस्याधिकरणं कुर्वाणस्य छेदः । एवमधिकरणकरणे आदेशत्रयेण प्रायश्चित्तमुक्तम् । तथा साहाय्यकरणेऽपि द्रष्टव्यम् । अधिकरणानुपशमने दोषदर्शनार्थमिदमुदाहरणम् - अरण्णमज्झे एगं अगाहजलं सव्वओ वणसंडमंडिअं महंतं सरं अत्थि । तत्थ य बहूणि जलचर - थलचर - खचर - सत्ताणि अच्छंति । तत्थ एगं महल्लं हत्थिजूहं परिवसइ । अन्नया य गिम्हकाले तं हत्थिजूहं पाणिअं पाउण्हाउत्तिण्णं मज्झण्हकाले सीअलरुक्खछायाए सुहंसुहेणं चिट्ठइ । तत्थ य अदूरदेसे दो सरडा भंडिउमारद्धा । वणदेवताए अ ते दट्टु सव्वेसिं सभासाए आघोसिअं - भो हत्थिणो ! भो जलयरा! भो थलयरा ! मा एए सरडै भंडते उवेक्खह, वारेह तुब्भे । एवं भणिआ वि ते जलयराइणो चिंतंति-किं अम्हं एते सरडा भंडता काहिंति ? तत्थ य एगो सरडो भंडतो भग्गो पिल्लिओ सो धाडिज्जतो सुहपसुत्तस्स एगस्स जूहाहिवस्स बिलं ति काउं नासापुडं पविट्टो । बिइओ वि तस्स पिट्टओ चेव पविट्टो । ते सिरकपाले जुद्धुं संपलग्गा । तस्स हत्थिस्स महती अरई
A. कलहं करोति
B. काचंडाओ' इति भाषायाम्