________________
जइ - जीयकप्पो कोहे माणे अ मायाए लोभे अ उवउत्तया । हासे भय-मोहरिए विगहासु तहेव य ।। एआई अट्ठ ठाणाइं परिवज्जित्तु संजये । असावज्जं मिअं काले भासं भासिज्ज पन्नवं' ।।
(सं०प्र० ५१८, ५१९) अत आगाढवचनं मृषावादरूपं क्रोधादिजन्यत्वात् । तच्चात्यर्थं गाढम्-आगाढम् खरपरुषनिष्ठुरजकारादिरूपम् अन्यस्याऽऽख्यातुं यन्न शक्यते, येन चोक्तेन शरीरस्योष्मा जायते तदागाढं द्विधा-सूचया असूचया च स्यात्। तत्र सूचा स्वव्यपदेशेन परदोषाविष्करणम् । असूचा तु प्रकटमेव परदोषभाषणम् । तत आचार्य आचार्य प्रति एवंविधमागाढं यदि वदति, तदा छेदं छेदाख्यं प्रायश्चित्तं प्राप्नोति । वृषभे वृषभविषये यद्यागाढं वदति, तदा षड्गुरु । एवं भिक्षुविषये षड्लघु । क्षुल्लकविषये गुरुकाश्चत्वारः ।।५६।। तथा
वसभे छग्गुरुगाई छल्लहुगा भिक्खु खुड्डि गुरुगाई । वसभाइसु अंति कमा लहु गुरुगो अ लहुगो अ ।।५७।।
(नि०भा० २६२३) व्याख्या-वृषभस्याऽऽचार्यादिषु चतुर्षु विषये आगाढभाषणे षड्गुरुकादि चतुर्लघुकान्तं प्रायश्चित्तम् । भिक्षोः षड्लघुकादि गुरुमासान्तम् । क्षुल्लकस्य चतुर्गुरुकादि लघुमासान्तम् । पूर्वार्दोक्तादिप्रायश्चित्तोत्तरार्दोक्तान्तप्रायश्चित्तयोः क्रमेण योजनादेवमर्थघटना । इदमुक्तं भवति-वृषभस्याऽऽचार्य प्रति आगाढभाषणे षड्गुरु। वृषभं प्रति षड्लघु । भिक्षु प्रति चतुर्गुरु । क्षुल्लकं च प्रति चतुर्लघु । क्षुल्लकस्याऽऽचार्य प्रति चतुर्गुरु । वृषभं प्रति चतुर्लघु । भिक्षु प्रति गुरुमासः । क्षुल्लकस्य क्षुल्लकं च प्रत्यागाढभाषणे लघुमासः ।।५७।। एवमाचार्यादीनामागाढभाषणविषयं प्रायश्चित्तमुक्तम् । अथाधिकरणकारिसाधूपेक्षादिरूपं तदाह
लहुगो अ उवेहाए गुरुगो से चेव उवहसंतस्स । उत्तुअमाणे लहुगा सहायगत्ते सरिसदोसो ।।५८ ।।
(बृ०क० २६९९, नि०भा० २७८०) व्याख्या-अधिक्रियते नरकगतिगमनयोग्यतां प्राप्यते आत्मा अनेनेत्यधिकरणं कलहः । साधूनां च तदुत्पत्तिकारणान्यमूनि-अन्यस्याऽऽभाव्यं शैक्षादिकं विपरिणमय्य यदि परः कश्चिदाचार्यो गृह्णाति, ततो मूलाचार्यो ब्रवीति- किमिति मदीयमाभाव्यं गृह्णासि ?' पूर्वगृहीतं वा शैक्षकादिकं याचितो मदीयमाभाव्यं किं न प्रयच्छसि?' इति मार्यमाणमपि विप्रतिपत्त्या न ददाति, तदाधिकरणं भवति । एवमपरापरघटमानाऽऽलापकश्लोकादियोजनारूपव्यत्यामेडनया सूत्रं परावर्तयन्, हीनाधिकाक्षरं वा उच्चरन्, स्थापनाकुलानि वा निष्कारणं प्रविशन, भक्त-स्त्री-देश-राजकथां वा कथयन् साधुर्द्धितीयेन साधुना नोदितो यदा प्रतिवक्ति प्रद्विष्ट इव तदाऽधिकरणं स्यात् । एवमादिकारणैः समुत्पन्ने चाधिकरणे यः साधुर्यस्य साधोः प्रज्ञापनया उपशाम्यति तस्य तेन साधुना A. उपाध्यायम् ।