________________
जइ - जीयकप्पो इग-विगल-पणिदिसु वा बहुमद्दणि छलहु-छगुरु-दसगाणि ।
दसपु(प?)रओ दसगं चिअ पणिदि इक्केवि दप्पेणं ।।५४ ।। व्याख्या-वा अथवा एकेन्द्रिय-विकलेन्द्रिय-पञ्चेन्द्रियाणां बहुमईने बहुलविराधनायां क्रमेण षड्लघु-षड्गुरुदशकानि । एकेन्द्रियाणां पञ्चविधानामपि बहुलविराधनायां षड्लघु । विकलेन्द्रियाणां त्रिविधानामपि बहुलविराधनायां षड्गुरु । पञ्चेन्द्रियाणां बहुलवधे दशकमभक्तार्थानामिति शेषः । दशपरतो दशभ्यः परतो ऽग्रत एकादशादिषु प्रभूतेष्वपि पञ्चेन्द्रियेषूपहतेषु दशकमेव क्षपणानां नाधिकम् । पञ्चेन्द्रिये एकस्मिन्नपि दर्पण हते दशकमेव । अथवा एगाइदसतेसु' (अस्य ग्रन्थस्य गाथा १५६) इत्यादिगाथया पिण्डाधिकारे वक्ष्यमाणया द्वीन्द्रियादीनां बहुलविराधनाविषयं प्रायश्चित्तं प्रकारान्तरेण दर्शयिष्यते, तदपि प्रकारान्तरमत्राऽवगन्तव्यम् । पूर्वजीतकल्पवृत्तावत्राधिकारे तस्य प्रकारस्य दर्शितत्वात् । एवं षड्विधजीवनिकायविराधनाप्रायश्चित्तप्रतिपादनेन प्रथममहाव्रतातिचारप्रायश्चित्तमभिहितम् ।।५४।। अथ द्वितीय-तृतीय-पञ्चममहाव्रतातिचारप्रायश्चित्तं सामान्येनाह
मोसाइसु मेहुणवज्जिएसु दवाइवत्थुभिन्नेसु ।
हीणे मझुक्कोसे कमेण गुरुलहुगचउगुरुगा ।।५५।। व्याख्या-मृषावादादत्तादानपरिग्रहाश्चतुर्विधा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यतो मृषावादो धर्मास्तिकायादिसर्वद्रव्यविषयः । अदत्तादानं ग्राह्य-धारणीयवस्तुविषयम् । परिग्रहश्च सचित्ताचित्तमिश्रसर्वद्रव्यविषयः। क्षेत्रतो लोकालोकविषयौ मृषावादपरिग्रहौ । अदत्तादानं ग्रामनगराद्याश्रयम् । कालतस्त्रयोऽपि दिवा वा रात्रौ वा । भावतस्त्रयोऽपि रागेण वा द्वेषेण वा ततश्चतुर्विधेष्वपि मृषावादादत्तादानपरिग्रहेषु विषये क्रमेण हीने जघन्येऽतिचारे गुरुमासः । मध्ये मध्यमेऽतिचारे चतुर्लधु । उत्कृष्टे पुनश्चतुर्गुरु । मैथुनविषयप्रायश्चित्तं विशेषतो द्वितीयादिमहाव्रतातिचारप्रायश्चित्ताभिधानाधिकारे क्रमप्राप्तमग्रे प्रतिपादयिष्यते । अतोऽत्र मृषादिषु मैथुनवर्जितष्वित्यभिहितम् ।।५५।। एवं समुदितद्वितीयतृतीयपञ्चममहाव्रतातिचारप्रायश्चित्तं सामान्येनाभिधाय विशेषतो द्वितीयमहाव्रतातिचारप्रायश्चित्ताभिधित्सयाऽऽह
आयरिओ आयरिअं आगाढं वयइ पावइ छेयं । वसहे छग्गुरु भिक्खुंमि छल्लहु खुड्डगे गुरुगा ।।५६।।
(नि०भा० २६२२) व्याख्या-इह क्रोध-मान-माया-लोभ-हास्य-भय-मौखर्य-विकथोपयुक्तस्य वाक्यं मृषा भवति । यदुक्तम्