________________
जइ - जीयकप्पो वाससिसिरेसु वाओ बहिआ सीओ गिहेसु तु स उण्हो । विवरीओ पुण गिम्हे दिअराई सत्थमन्नुन्नं ।। एमेव देहवाओ बाहिरवायस्स होइ सत्थं तु । विअणादिसमुत्थो वि अ सउप्पत्ती सत्थमन्नस्स' ।।
. (नि०भा० २४१, २४२) सउप्पत्ती' ति स्वेन स्वेन विधानेनोत्पन्न इति । एवमन्यदप्येतद्विराधनाविषयं प्रायश्चित्तं प्रकल्पतोऽवसेयम इति ।।५०।। पृथिवीकायायेकेन्द्रियविराधनाविषयं प्रायश्चित्तमुक्तम् । सम्प्रति विकलेन्द्रियादिविराधनागोचरं तदाह
विगलाण घट्टणाइसु लहुगुरुचउलहु अ चउगुरु हुति ।
गुरुगाइ छल्लहुंतं पंचिंदिअघट्टणाईसु ।।५१।। व्याख्या-विकलानां विकलेन्द्रियाणां द्वीन्द्रिय-त्रीन्द्रीय-चतुरिन्द्रियाणामित्यर्थः । घट्टनादिषु सङ्घट्टनाऽगाढपरितापगाढपरितापोपद्रवणेषु यथासङ्ख्यं लघुगुरुचतुर्लघुचतुर्गुरुका भवन्ति । विकलेन्द्रियाणां सङ्घट्टने लघुमासः। अगाढपरितापे गुरुमासः । गाढपरितापे चतुर्लघु । उपद्रवणे चतुर्गुरु स्यादिति भावः । पञ्चेन्द्रियाणां घट्टनादिषु गुरुमासादि षड्लघुकान्तं प्रायश्चित्तं भवति । पञ्चेन्द्रियाणां सङ्घट्टस्तदहर्जातमूषकगृहोलिकादिविषयो द्रष्टव्यस्तत्र गुरुमासः । अगाढपरितापे चतुर्लघु । गाढपरितापे चतुर्गुरु । उपद्रवणे षड्लघुकम् ।।५१।। अथैतेषामेव वधविषयं प्रायश्चित्तं प्रकारान्तरद्वयेनाह
इगबितिचउपंचिंदिअवहमि गुरुगाइ बारसंतं वा ।
इगबितिचउरपणिंदिसु इगबितिचउपचकल्ला वा ।।५२।। व्याख्या-वा विकल्पार्थः । एकद्वित्रिचतुष्पञ्चेन्द्रियवधे गुरुकादि बादशान्तं क्रमेण स्यात् । एकेन्द्रियवधे चतुर्गुरु। द्वीन्द्रियवधे षड्लघु । त्रीन्द्रियवधे षड्गुरु । चतुरिन्द्रियवधे दशमम् । पञ्चेन्द्रियवधे द्वादशं भवतीति भावः । एकोऽयमादेशः । वा अथवा कल्यं कल्याणकं तच्चेदम्-नि०पु०ए०आ०उ० । तत एकेन्द्रियवधे एवंविधमेकं कल्यम् । द्वीन्द्रियवधे द्वे कल्ये । त्रीन्द्रियवधे त्रीणि कल्यानि । चतुरिन्द्रियवधे चत्वारि कल्यानि । पञ्चेन्द्रियवधे पञ्च कल्यानि । अयं द्वितीयादेशः । एतौ द्वावादेशौ दानप्रायश्चित्ततया प्रकल्पे भणितौ ।।५२ ।। अथैतेषां बहुलविराधनाविषयं प्रायश्चित्तमाह
जलतेअबहुलफुसणे छग्गुरु दसगं तु विगलबहुलवहे ।
दुतिचउकल्ला व कमा बितिचउरिंदीण बहुलवहे ।।५३।। व्याख्या-जलम् अप्कायः तेजः अग्निकायस्तयोः बहुलस्पर्शन बहुविराधनायां प्रत्येकं षड्गुरुकं प्रायश्चित्तं स्यात् । विकलानां विकलेन्द्रियाणां बहुलवधे पुनर्दशकं चतुर्थानामिति शेषः । वा अथवा क्रमाद् अनुक्रमेण द्वीन्द्रियाणां बहुलवधे द्वे कल्ये । त्रीन्द्रियाणां बहुलवधे त्रीणि कल्यानि । चतुरिन्द्रियाणां बहुलवधे चत्वारि कल्यानि । अथ प्रकारान्तरेण बहुलविराधनाविषयं प्रायश्चित्तमाह