________________
जइ - जीयकप्पो च स्यात् तन्निष्पन्नमपि तस्य प्रायश्चित्तम् । तथा-असार्वरात्रिकप्रदीपयुक्तवसताववस्थाने लघुमासः । सार्वरात्रिकप्रदीप-सार्वरात्रिकाऽसार्वरात्रिकाऽपरज्योतिसहितवस
साग्निवसतौ चोपकरणप्रतिलेखने मासलघु । अथाऽग्नौ छेदनकानि निपतन्ति तदा चतुर्लघु । अथाग्निविराधनाभयान्न प्रतिलेखयति ततोऽसामाचारीनिष्पन्नं मासलघु उपधिनिष्पन्नं वा । वसतिं गमनागमने वा यदि न प्रमार्जयति तदा मासलघु । अथ प्रमार्जयति तदापि मासलघु । अथ प्रमार्जने छेदनकैरग्निर्विराध्यते ततश्चतुर्लघु । तथा सूत्रपौरुष्यकरणे १, अर्थपौरुष्यकरणे पी, सूत्रनाशे ४, अर्थनाशे ही, तयोः करणे पुनरग्निविराधना । सज्योतिर्वसतौ रागे चतुर्गुरु । द्वेषे चतुर्लघु । आवश्यके च यावत उत्सर्गान्न करोति तावन्तो मासाः । सर्वं वाऽऽवश्यकं न करोति चतुर्लघु । अथ करोति ततो यावन्त उत्सर्गास्तावन्तश्चतुर्लघुकाः । सर्वस्मिन्नप्यावश्यके कृते चतुर्लघुकमेव । यतिवन्दनानि स्तुतीर्वा न ददाति, तति लघुमासाः । अथ ददाति तदा तदेव मासलघु । सन्दर्शकयोः प्रमार्जनेऽप्रमार्जनेऽपि लघुमासः । आवश्यकीनषेधिक्योः करणे पञ्चकमसामाचारीनिष्पन्न वा, अकरणे तु प्रत्येकं पञ्चकम् । आसज्जे' त्यभणने मासलघु भणने चाग्निनिष्पन्नम्। साग्निवसतौ प्रस्खलने पठने वा चतुर्लघु षड्जीवनिकायविराधनानिष्पन्नं च । अतस्तथाविधकारणैः साग्निवसताववस्थाने यतनेयं क्रियते-कटं चिलिमिणिकां वाऽन्तरा दत्त्वा प्रतिलेखनादीनि कुर्वन्ति, तदभावे बहिः कुर्वन्ति। बहिः स्थानाभावे चावश्यक स्तुतिवन्दनकहीनं मौनेन यतनया वर्षाकल्पप्रावृताः कुर्वन्ति । गमनागमने च प्रमार्जनावश्यकीनषेधिकीन कुर्वन्ति इत्यादि तेजःकायविषया यतना तत एवावसेया, ग्लानादिकार्यविषयाऽपि च । वायुकायविराधनायां पुनरेवं प्रायश्चित्तम्-धर्माभिभूतो निलयाऽभ्यन्तराद् बहिर्निर्गच्छति, अनिलाऽभिधारणनिमित्तं वा बहिः स्थितः शब्दयति, यथा-एहि एहि इतः शीतलो वायुरिति । पूर्वकृतछिद्रेषु वायु प्रतिसेवते । अपूर्वाणि वा छिद्राणि वाताऽभिधारणनिमित्तं करोति । घर्त्तिः स्वाङ्गं फूत्करोति । उष्णं वा भक्तपानं फूत्करोति । पूर्वकृतं द्वारं कपाटं वोद्घाटयति । अपूर्व वा द्वारमुद्घाटयति । उच्छाडं वाऽपसारयति । गृहछिंडिकायां वा याति । वस्त्रं वा चतुरस्रं कृत्वा वायुं करोति । तालवृन्त-वस्त्राञ्चल-पत्र-मात्रक-हस्तादिभिर्वायुं करोति । हस्तशङ्ख शङ्खदृतिकादि वा वायुना पूरयति । क्षुतकासितोच्छ्वसितनिःश्वसितानि वा अविधिना करोति। तत्र निर्गमन-फूत्करण-हस्त-मात्रक-पत्रवस्त्राञ्चलवायुकरणेषु मासलघु प्रायश्चित्तम् । अभीक्ष्णासेवायां च दशवाराभिः पाराञ्चिकम् । शेषेसु पदेषु चतुर्लघु, अभीक्ष्णासेवायां चाष्टवाराभिः पाराञ्चिकम् । क्षुतादिषु पुनः पञ्चकम् । अभीक्ष्णासेवायां चतुर्विंशतिवाराभिः पाराञ्चिकम् । छिद्राणि पुनर्यावन्ति करोति तावन्तो लघुमासाः यावत् त्रीणि । ततः परं चतुर्लघु स्यात् । पूर्वकृतछिद्रेष्वेवं प्रायश्चित्तम् । ननु वाताभिधारणादिषु कथं प्रायश्चित्तापत्तिः स्यात् ? उच्यते-वायुकायजीवविराधनासद्भावात् । यदुक्तम्A. पक्ष्माणि भाषायां पुमाटा इत्यर्थः (पातळो दोरो)। B. साणसी' इति भाषायाम् । C. वन खावा माटे' इति भाषायाम् ।।
D. ओछाड = ढांकवा के पाथरवानुं लूगडु' इति भाषायाम् ।