________________
जई - जीयकप्पो
पृथिवीकायादिखण्डग्रहणे चतुर्गुरु । एवं स्थानद्विगुणवृद्ध्या यावदष्टमवारायामष्टाविंशत्युत्तरशतार्द्रामलकप्रमाणपृथिवीकायाऽप्कायवनस्पतिकायखण्डग्रहणे पाराञ्चिकम् । एवं द्रवोदकेऽपि ज्ञातव्यं, परमार्द्रामलकस्थाने अञ्जलिर्द्रष्टव्यः । अष्टाविंशत्युत्तरशताञ्जलिजलग्रहणे पाराञ्चिकं स्यादित्यर्थः ।। ४९ ।। तथा— इअ महिअनंततसगमि चउगुरुगा सोलजोयणे चरिमं । बीओसे मीसेसु अ लहुमासा अट्ठवीससए ।। ५० ।। व्याख्या - इअ' एवं यथा पूर्वगाथायां सचित्तपृथिव्यादिगमने गव्यूतादिषु पाराञ्चिकान्तं प्रायश्चित्तमुक्तं तथा अत्र महिकादिगमने ज्ञातव्यम् । महिका धूमरी अनन्ता अनन्तकायवनस्पतयः त्रसा द्वीन्द्रियादय:, तेषु गमे गमने गव्यूते चतुर्गुरुकाः । ततो द्विगुणद्विगुणवृद्ध्या मार्गगमने अग्रेतनानि प्रायश्चित्तानि तावद्वाच्यानि यावत् षोडशयोजनेषु चरमं पारञ्चिकं भवति । अयमभिप्रायः – महिकायां पतन्त्याम् अनन्तकायव्याप्तमार्गे द्वीन्द्रियादि— त्रसजीवसङ्कुले च मार्गे एकगव्यूतगमने चतुर्गुरु, गव्यूतद्वयगमने षड्लघु, योजने षड्गुरु, योजनद्वये छेदः, योजनचतुष्टये मूलम्, योजनाऽष्टके अनवस्थाप्यम्, षोडशयोजनेषु पाराञ्चिकम् । तथा — बीजानि द्विधा - प्रत्येकवनस्पतिबीजानि अनन्तकायबीजानि च । ओस' त्ति । अवश्यायः तुषारः । स चाऽधस्तादुपरि च स्यात्तेषु मिश्रेषु च । अत्र बहुवचनेन मिश्रपृथ्वी - मिश्रोदक - मिश्रवनस्पतिकाया एते त्रयोऽपि गृह्यन्ते । तेषु च गमने गव्यूते लघुमासादारभ्य द्विगुणद्विगुणवृद्ध्या यावदष्टाविंशत्युत्तरशतयोजनेषु चरमं पाराञ्चिकं स्यात् । अयमत्र भावः–प्रत्येकाऽनन्तबीजराशिव्याप्ते पथि, अवश्याये भूमौ निपतिते निपतति वा, मिश्रपृथिव्यां मिश्रोदके मिश्रहरितादिवनस्पतिकाये च गच्छतो गव्यूते लघुमासः । गव्यूतद्वये गुरुमासः । योजने चतुर्लघु । योजनद्वये चतुर्गुरु | योजनचतुष्टये षड्लघु । योजनाष्टके षड्गुरु । षोडशयोजनेषु छेदः । द्वात्रिंशद्योजनेषु मूलम् । चतुःषष्टियोजनेष्वनवस्थाप्यम् । अष्टाविंशत्युत्तरशतयोजनेषु पाराञ्चिकम् । एवं स्थानद्विगुणवृद्ध्या दशमवारायां पाराञ्चिकं प्रायश्चित्तम् । अत्र महिकाऽनन्तकाय - त्रससंसक्तमार्गाभीक्ष्णसेवायां सप्तवाराभिः पाराञ्चिकम् । बीजावश्यायमिश्राभीक्ष्णसेवायां पुनर्दशवाराभिः पाराञ्चिकम् परं मिश्रानन्तकायाऽभीक्ष्णसेवायां नववाराभिः पाराञ्चिकम् । यतस्तत्र प्रथमवारायां गुरुमासस्यैवापत्तिः । तथा मिश्रपृथिवीकायादौ स्थानोपवेशनशयनानि कुर्वाणस्य प्रत्येकं मासलघु । अभीक्ष्णसेवायां दशमवारायां पाराञ्चिकम् । तथा तेजः कायविराधनायामित्थं प्रायश्चित्तं प्रकल्पे प्रदर्शितम् । तद्यथा - उत्तराधरारणिकाष्ठमथनप्रयोगेणाभिनवमग्निं जनयति यस्तस्य मूलम् । स्वयं प्रज्वालिते चाऽग्नौ पृथिव्यादीनां त्रसकायपर्यन्तानां सङ्घट्टने ४, परितापने ४ी, अतिपातने मूलम् । एतत् प्रायश्चित्तं कायनिष्पन्नम् । तथा परप्रज्वालितं वह्निं स्वस्थानस्थितमेवाऽसङ्घट्टेन सेवमानस्य चतुर्लघु । यावतश्च वारान् हस्तादि परावर्त्त्य तापयति तावन्तश्चतुर्लघुकाः । तापने च षट्पदिकाविराधना, इन्धनप्रक्षेपे त्रसादिजन्तुविराधना