________________
जइ - जीयकप्पो एतासामेकतरयाऽपि नावा अर्धयोजनगमने चतुर्लघु। अतः परम् अर्धयोजनवृद्ध्याऽग्रेतनप्रायश्चित्तानि क्रमेण स्युः । तद्यथा-योजने चतुर्गुरु, सार्द्धयोजने षड्लघु, योजनद्वये षड्गुरु, सार्द्धयोजनद्वये छेदः, योजनत्रये मूलम्, सार्द्धयोजनत्रये अनवस्थाप्यम् , योजनचतुष्टये पाराञ्चिकम् । अभीक्ष्णसेवायां पुनरष्टवाराभिः पाराञ्चिकमिति दपिकासेवायां प्रकल्पे ।।४८।।
गंतीकमणीभोगे अचक्षुभूवणदगग्गिफुसणगमे । गाउअलहुगाढत्तं बत्तीसं जोअणे चरिमं ।।४९।।
(नि०भा० १८४) व्याख्या-गन्त्री शकटं क्रमणी उपानत् तयोर्भोगे परिभोगे । अचक्षुः यत्र चक्षुर्न विद्यते व्याप्रियमाणतया प्रसृमरान्धकारनिकरण, यत्र चक्षुषा लोचनेन निर्मलेनाऽपि स्थूला अपि जन्तवो निरीक्षितुं न शक्यन्ते इति भावः । सोऽचक्षुः अचक्षुर्विषयः प्रदेशः, भूः सचित्ता पृथिवी पण' त्ति वनस्पतिकायिकाः प्रत्येकशरीरिणः । दग' त्ति उदकम् , तच्च द्विधा-भूम्युदकं नद्यादिषु, अन्तरिक्षोदकं च मेघवृष्टौ । अग्निः वह्निस्तस्य स्पर्शनं अग्निस्पर्शनम् । एतेषु गमे गमने गव्यूतलघुकाऽऽरब्धं प्रायश्चित्तम् । द्वात्रिंशयोजनेषु चरमं पाराञ्चिकं स्याद् । अयमर्थः-साधुर्गन्त्र्यामुपविष्टः क्रमण्यो वा परिधाय अचक्षुर्विषये सचित्तपृथिव्यां प्रत्येकवनस्पतिकायिकेषु अप्काये अग्निस्पर्शन वा यद्येकगव्यूतमात्र मार्गं गच्छति, तदा तस्य चतुर्लघुकाः प्रायश्चित्तम्, गव्यूतद्वयं यदि गच्छति तदा चतुर्गुरु, योजनं यदि याति तदा षड्लघु, योजनद्वयं यदि याति ततः षड्गुरु, योजनचतुष्कं चेद् गच्छति तदा छेदः, योजनाष्टकं यदि प्रयाति तदा मूलम् , षोडशयोजनानि यदि व्रजति तदाऽनवस्थाप्यम् , द्वात्रिंशद्योजनानि यदि पुनः प्रयाति तदा पाराञ्चिकम् । एवं गव्यूते चतुर्लघुकादारभ्य स्थानद्विगुणवृद्ध्या द्वात्रिंशद्योजनेष्वष्टमवारायां पाराञ्चिकं स्यात् । सचित्तपृथिव्यादीनामभीक्ष्णसेवायां पुनरित्थं प्रायश्चित्तम् । तद्यथा-सचित्तपृथिव्यादिषु द्वितीयवारायां गच्छतो गव्यूते चतुर्गुरुकादारभ्य यावत् षोडशयोजनस्थाने पाराश्चिकम्। तृतीयवारायां षड्लघुकादारभ्य अष्टयोजनपदे पाराञ्चिकम् । एवं यावदष्टमवारायां गव्यूते एव पाराञ्चिकम्, उपलक्षणत्वात् सचित्तपृथिव्यादौ स्थानं निषदनं त्वग्वर्त्तनं वा कुर्वाणस्य चतुर्लघुकम् । अभीक्ष्णसेवायामष्टमवारायां पाराञ्चिकम् । तथा च सचित्तपृथिव्यामधोऽङ्गुलचतुष्कखनने चतुर्लघुकम्, ततोऽप्यधोऽङ्गुलचतुष्कखनने चतुर्गुरुकम्। एवं तृतीयचतुष्के ६, चतुर्थचतुष्के दी, ततो द्विके छेदो, द्विके मूलम् , द्विकेऽनवस्थाप्यं पुनर्दिक पाराञ्चिकम्। एवमधश्चतुर्विंशत्यङ्गुलखनने अष्टमस्थाने पाराञ्चिकं स्यादिति भावः । अभीक्ष्णखननेऽष्टमवारायां पाराञ्चिकम् । तथा कलःचणकस्तावन्मात्रात् खण्डादारभ्य यावदार्द्रामलकप्रमाणं सचित्तपृथ्वीकायखण्डम् अप्कायरूपकरकहिमपिण्डादिखण्डं वनस्पतिकायखण्डं वा यदि गृह्णाति, तदा चतुर्लघुकम् । आर्द्रामलकद्विकप्रमाणA. निशीथसूत्रे