________________
1
I
जई - जीयकप्पो दर्शयति — निरपायः प्रत्यपायवर्जितो यः परिरयो जलपरिहारमार्ग : पूर्वप्रतिपादितपरिमाणस्तस्याऽसति अभावे नावादिगमेऽपि नावा गमनेऽपि चतुर्लघुकाः । न केवलं लेपादिगमने किन्तु नावा गमनेऽपीत्यपिशब्दार्थः । नौसन्तरणे च या षट्कायविराधना स्यात्तन्निष्पन्नमपि प्रायश्चित्तमवगन्तव्यम् । अत्राह - ननु भावा नइसन्तारे पायच्छित्तं विउस्सग्गो' इत्यत्र नौनदीसन्तारभेदेषु सर्वेष्वपि व्युत्सर्गः प्रायश्चित्तमभिहितमिह पुनस्तेष्वेव तपः प्रायश्चित्तं कथम् ? उच्यते - यत् व्युत्सर्गं प्रायश्चित्तं तत्राभिहितं तत्तदानीमेव करणीयतया यतनार्थं सामान्येनोक्तम् । तपः प्रायश्चित्तं तु अप्कायविराधनाविशुद्धिनिमित्तं विशेषतोऽभिधीयमानं न विरुद्ध्यते, उभयप्रायश्चित्तविशोध्यत्वादेतेषामिति । नावारोहणे चामूनि कारणानि - स्थलसङ्घट्टादिपथेषु शरीरोपधिस्तेनाः सिंहादयो वा श्वापदा भवेयुः, भैक्ष्यं वा न लभ्यते, आगाढं वा कारणमहिदष्टविषविशूचिकादिकं भवेत्, तत्र त्वरितमौषधान्यानेतव्यानि कुलादिकार्यं वा अक्षेपेण करणीयमुपस्थितम् उपधेरुत्पादनार्थं वा गन्तव्यम्, लेपे लेपोपरौ वा मकरभयं ततो नौरारोढव्या । सा च नौ परार्था संयतार्था वा याति । तत्र परार्थायां गन्तव्यम्, तदभावे संयतार्थायामपि । सा द्विविधा - नवा पुराणा च । नवायां गन्तव्यम्, न पुराणायां सप्रत्यपायत्वात् । नवापि द्विविधा — उदकभाविता अभाविता च । उदके या क्षिप्तपूर्वा सा उदकभाविता, इतराऽभाविता । तत्र भावितायां गन्तव्यम्, नाभावितायामुदकविराधनासम्भवात् । उदकभाविताऽपि द्विधा - तदुदकभाविता अन्योदकभाविता च । तदुदकभावितायां गन्तव्यम्, नेतरस्याम्, मा भूदुदकशस्त्रमिति कृत्वा । तदुदकभाविताऽपि द्विविध-आर्द्रा शुष्का च । आर्द्रायां गन्तव्यम्, नेतरस्यामुदकाकर्षणभयात् । नावं चाऽऽरोढुकामेन एकान्तमुपक्रम्योपकरणं प्रत्युपेक्षणीयम्, ततोऽधःकायं रजोहरणेनोपरिकायं मुखानन्तकेन प्रमृज्य, भाजनान्येकत्र बद्ध्वा तेषामुपरिष्टादुपधिं सुनियन्त्रितं करोति । ततो यदि भद्रका नाविकादयः स्थिरा च नौर्न दोलायते ततः पूर्वमारोढव्यम् । अथ प्रान्तास्ततः पूर्वं नारुह्यते । मा अमङ्गलमिति कृत्वा प्रद्वेषं गमन् । तेषां प्रान्तानां भावं ज्ञात्वा समकं पश्चाद् वा आरोहणीयम् । नौशिरसि च न स्थातव्यं देवतास्थानं तदितिकृत्वा । मार्गतोऽपि न स्थातव्यं निर्यामकस्तत्र तिष्ठतीति कृत्वा । मध्येऽपि यत्र कूपकस्थानं तत्र न स्थातव्यम् । तन्मुक्त्वा यदपरं मध्ये स्थानं तत्र स्थेयम् । अथ मध्ये नास्ति स्थानं ततः शिरसि पृष्ठतो वा यत्र ते स्थापयन्ति तत्र निराबाधे स्थीयते । साकारं भक्तं प्रत्याख्याय नमस्कारस्मरणप्रवणस्तिष्ठति । उत्तरन्नपि न पूर्वमुत्तरति न वा पश्चात् किन्तु मध्ये उत्तरति । सारोपधिश्च पूर्वमेवाल्पसागारिका क्रियते, यदन्तप्रान्तं चीवरं तत्प्रावृणोति । यदि च तरपण्यं नाविको मार्गयति तदा धर्मकथा अनुशिष्टिश्च क्रियते । अथ न मुञ्चति । ततो द्वितीयपदे यदन्तप्रान्तमुपकरणं तद्यतनया दातव्यम् । अथ तन्नेच्छति निरुणद्धि वा ततोऽनुकम्पया यद्यन्यो ददाति तदा न वारणीयः । नौश्च चतुष्प्रकारा - समुद्रगामिनी १, अनुस्रोतोगामिनी २, प्रतिस्रोतोगामिनी ३, तिर्यग्गामिनी च ४ । A. भाडुं' इति भाषायाम् ।
>