________________
जइ - जीयकप्पो एएसि विवज्जासे चाउम्मासा भवे लहुगा' इति निशीथभाष्यवचनात् । अथैतेषां लेपादीनामुत्तरार्द्धन प्रायश्चित्तं दर्शयति । यथा-लेपे लेपगमने, लेपोपरि कुम्भ-तुम्ब-दृतिको-डुपे-लेपोपरिगमने, कुम्भसन्तरणे, दृतिकसन्तरणे तुम्बसन्तरणे, उडुपसन्तरणे, उपलक्षणत्वात् पर्णीभारकसन्तरणे च चतुर्लघुकाः प्रायश्चित्तम् । अत्र च तुम्बशब्दस्य दृतिकशब्दात् पूर्वं निबन्धो बन्धानुलोम्यात् । नौसन्तरणप्रायश्चित्तं त्वग्रे प्रतिपादयिष्यते । निष्कारणे सङ्घट्टनेन गमने मासलघु प्रथमवारायां, द्वितीयवारायां तु मासगुरु, एवं दशमवारायां पाराञ्चिकम् । अथ लेपेन गमने प्रथमवारायां चतुर्लघुकम् । अभीक्ष्णसेवयाऽष्टभिर्वाराभिः पाराञ्चिकम् । एवं लेपोपरि-कुम्भादिष्वपि
। अभीक्ष्णसेवयाऽष्टभिर्वाराभिः पाराञ्चिकं द्रष्टव्यमित्यादयो निशीथगता अनेकविशेषाः स्वयमवगन्तव्याः ।।४५।। अथ पूर्वदर्शितसक्रमगमने प्रायश्चित्तमाह
थिरसंकमेण लहुगो लहुगा निपच्चवाय-अथिरेण ।
गुरुगा सपच्चवाए जले वि इअ लेवमाईहिं ।।४६।। व्याख्या-स्थिरसङ्क्रमेण निश्चलजलपरिहारमार्गेण गमने लघुको मासः । तेनैव सङ्क्रमेण निष्पत्यपायेन अपायरहितेन अस्थिरेण चलेन गमने चत्वारो लघुकाः । तस्मिन्नेव सप्रत्यपाये चत्वारो गुरुकाः प्रायश्चित्तम् । जलेऽपि सप्रत्यपाये लेपादिभिर्गमने इत्येवं चतुर्गुरुकाः ।।४६।। अथ यत्र तथाविधकारणैर्नावा तीर्यते, तत्राऽयं विधिः
अडछगचउरदुगाओ अ वक्केण कमेण गंतु निरवाए ।
थल-घट्ट-लेव-लेवोवरि गमणं न उण नावाए ।।४७।। व्याख्या-अत्र क्रमेण यथासङ्ख्येन योजना । नावुत्तरणस्थानाद् यदि अष्टगव्यूतवक्रेण गत्वा निरपाये अपायाभावे स्थलमार्गः प्राप्यते, तदा तेन गम्यते । अथ स्थलपथो नास्ति, अस्ति वा परं सापायस्ततः षड्गव्यूतवक्रमार्गेण सङ्घट्टेन गम्यते । तदभावे चतुर्गव्यूतवक्रेण लेपेन गम्यते । तदभावे द्विगव्यूतवक्रमार्गेण लेपोपरिणा गमनं कार्यं, न पुन वा ।।४७।। तथा
इअ छच्चउरदुगाउ अ गमणं लेवुवरि-लेव-संघट्टे ।
निरवायपरिरयासइ नावाइगमे वि चउलहुगा ।।४८।। व्याख्या-एवमेव लेपोपरिस्थानात् षड्गव्यूतपरिरयेण स्थलेन, चतुर्गव्यूतपरिरयेण लेपेन, द्विगव्यूतपरिहारेण वा सङ्घट्टेन गम्यताम्, न च लेपोपरिणा । लेपोत्तरणस्थानात् चतुर्गव्यूतपर्यवहारेण स्थलेन, द्विगव्यूतपरिहारेण वा सङ्घट्टेन गन्तव्यम्, न तु लेपेन । सङ्घट्टोत्तरणस्थानात् द्विगव्यूतपरिहारेण स्थलेन गन्तव्यम्, न पुनः सङ्घटेन । एतेषां परिहारपरिमाणानामभावे नावा लेपोपरिणा लेपेन सङ्घट्टेन वा कारणे यतनया गम्यते । अमुमेवार्थमुत्तरार्द्धन