________________
जइ - जीयकप्पो पदैरष्टौ भङ्गा भवन्ति । एते च द्वीन्द्रियादिषु चतुर्वपि प्रत्येकमष्टावष्टौ लभ्यन्ते । जाता द्वात्रिंशद् भङ्गाः । सान्तरनिरन्तरविवक्षया च चतुष्षष्टिः संयोगाः । अत्र चाऽऽक्रान्तस्थिरनिरपायैः सान्तरैस्त्रसैर्गन्तव्यम् , नाप्कायेन। अथ वनस्पतित्रसानां द्विकसंयोगे किं वनस्पतौ गम्यतामुत त्रसेषु ? उच्यते-त्रसेषु सान्तरेषु गन्तव्यम्, न पुनर्वनस्पतौ, तत्र हि नियमेन वसा भवेयुः । पृथिव्यप्कायवनस्पतित्रयसम्भवे कतमेन गम्यताम् ?, उच्यते-पूर्व पृथिवीकायेन, ततो वनस्पतिकायेन, ततोऽप्कायेनाऽपि । पृथिव्युदकवनस्पतित्रसलक्षणचतुष्कसंयोगसम्भवे कतमेन गन्तव्यम् ?, उच्यते-पूर्वमचित्तपृथिव्यां प्रविरलत्रसेषु, ततः सचित्तपृथिव्यां, ततो वनस्पतिना, ततोऽप्कायेनाऽपि गम्यम् । तथा यदि स्थलपथ एव न स्यात् , स्थलपथे वा भिक्षा वसतिर्वा नास्ति, स्तेनश्वापदभयं वा तत्र, ततः स्थलपथं मुकत्वा पूर्वं सङ्घट्टेन गम्यते । तत्रेयं यतना- एकं पादं जले एकं पादं स्थले-आकाशे कृत्वा गन्तव्यम्। उत्तरन्तं लोकं विलोक्य, प्रातिपथिकमन्यं वा पृष्ट्वा च यस्मिन् पार्श्वे नीचतरमुदकमवगम्यते तत्रोत्तरणीयम् । उत्तरणानन्तरं च नीरे निष्प्रगलिते तीरे ईर्यापथिक्याः कायोत्सर्गः कार्यः इति । एतत् प्रकृतोपयोगित्वाद् दर्शितम्। अथ प्रकृतमेव दयत-एवं यतनया एकनदीबहुसङ्घट्टे एकस्या एव नद्या बहून वारान् सङ्घट्टे जाते सति गुरुको मासः प्रायश्चित्तम् । एकसङ्घट्टे एकवारं सट्टे लघुकश्च मासः । यत्र तु सङ्घट्टेन गन्तुं न शक्यते, तत्र लेपेन गम्यते । यत्र तु लेपेनाऽपि गन्तुं न पार्यत, तत्र लेपोपरिणापि गम्यते । तत्र चेयं यतना-यदि स साधुर्गृहिसार्थसहायस्तत उदकसमीपं गत्वोर्ध्वकायं मुखवस्रिकयाऽधःकायं रजोहरणेन प्रमा|पकरणमेकतः कृत्वा यदि चौरादिभयं न स्यात् ततो गृहस्थानां पश्चादुदकमवतरति । यथा यथा चोण्डमुण्डतरजलमवगाहते तथा तथोपर्युपरि चोलपट्टकमुत्सारयेत् येन न तीम्यते । अथ तत्र सभयं अगाधं वा जलमतो यदा कियन्तोऽपि गृहस्था अग्रतोऽवतीर्णास्तदा मध्ये साधुना अवतरणीयं चोलपट्टकं च दृढं बध्नीयात् । एतेन विधिनोत्तीर्णस्य यदि चोलपट्टकोऽन्यद्वा किञ्चिदुपकरणजातं तीमितम्, तदाऽयं विधिः-उदकतीरे स्निग्धपृथिव्यामप्कायरक्षार्थं तावत्तिष्ठेद् यावच्चोलपट्टोन्यद्वोपकरणं निष्प्रगलं भवति । अथ तत्र चौरादिभयं ततः प्रगलन्तमेव तं चोलपट्टकं हस्ते दण्डके वा प्रलम्बमानं गृहीत्वा कायेनाऽस्पृशन् गच्छति । यदा च सार्थविरहित एकाकी साधुरुत्तरति, तदाऽयं विधिः-सर्वोपकरणमवतरणतीरे मुक्त्वा आत्मप्रमाणाच्चतुरङगुलातिरिक्तां यष्टिं गृहीत्वा तयाऽस्ताघतामनुमीय परतीरात् प्रत्यागत्य सर्वोपकरणमेकत्र कृत्वा तेन परीक्षितजलपथेनोत्तरति । अस्ताघे च जले यत्र लेपोपरिणाऽपि गन्तुं न शक्यते, तत्र बाहुभ्यां न तरणीयं हस्तादिप्रक्षेपे बहूदकोपघातभावात् । किन्तु जलभावितैः कुम्भादिभिः सन्तरणं कार्यम् । तत्र प्रथमं कुम्भेन घटेन । अथवा घटैश्चतुष्काष्ठकोणकनिबद्धैः त्रापकेणेत्यर्थः । तदभावे दृतिकेन वातपूर्णेन । तदभावे तुम्बेन तुम्बकजालेनेत्यर्थः । तदभावे उडुपेन कोट्टिम्बकेन । तदभावे पर्ष्यापर्णीमयभारकैः। तदभावे च नावा गन्तव्यं तथाविधकारणे समुत्पन्ने । एतेषां च विपर्यासग्रहणे चतुर्लघुकाः प्रायश्चित्तम् । A. भीनो न थाय' इति भाषायाम् B. द्रोण्या = लाकडीनुं बनेलु इंडाना आकारवाळु एक पात्र विशेष वडे' इति भाषायाम्