________________
जइ - जीयकप्पो अस्ताघजलं तु कुम्भतुम्बादिभिः । यत्र यस्मिन् जले उत्तरतां पादतलादारभ्य जवाया अर्द्धं बुडति, स सङ्घट्टः। तस्यैव सङ्घट्टस्योपरि यावन्नाभिरेतावद्यत्र प्रविशति, स लेपः । ततः परं नाभेरारभ्योपरि सर्वमपि लेपोपरिभण्यते । नदीं चोत्तरतां त्रयः पन्थानः । तद्यथा-सङ्क्रमः स्थलं नोस्थलं च । तत्र सङ्क्रम एकाङ्गिको वा स्यादनेकाङ्गिको वा । एकाङ्गिको य एकेन फलकादिना कृतः । अनेकाङ्गिकोऽनेकफलकादिनिर्मितः । सण्डेवका अपि सङ्क्रमभेदा एव । ते च (द्विविधाः) तज्जाता अतज्जाता वा भवेयुः । तत्रैव जातास्तज्जाताः शिलादयः । अन्यतः स्थानादानीय स्थापिता अतज्जाता इट्टालकादयः । नद्या आकुण्टितंकूर्पराकारवलनं नदीकूर्परम् , जलोपरि कपाटानि मुक्त्वा पालिबन्धः क्रियते स वरणः । एताभ्यां यत्रोदकं परिहत्य गम्यते तत्स्थलम् । नोस्थलं पुनश्चतुर्विधम् उपलजलम् अधः पाषाणा उपरि जलम् १, वालुकाजलम् अधो वालुका उपरि जलम् २, शुद्धोदकम् अधः शुद्धा मही उपरि जलम् ३, पङ्कोदकम् अधः कर्दम उपरि जलम् ४ । एतेषां मध्ये पूर्व निरपायस्थलेन गन्तव्यम् । तदभावे सङ्क्रमेण । तत्राऽप्येकाङ्गिकेन गन्तव्यम्, नाऽनेकाङ्गिकेन । एवं स्थिरेण, न चलेन । अपरिशाटिना-न परिशाटिना । सालम्बनेन न निरालम्बेन। सालम्बोऽपि द्विधा-एकतः सालम्बो द्विधा सालम्बश्च । पूर्वं द्विधा सालम्बेन, ततः एकतः सालम्बेनाऽपि । तथा निर्भयन गन्तव्यम्, न सभयेन । एतेषामेकाङ्गिकादिनामभावे येऽनेकाङ्गिकादयस्तत्प्रतिपक्षास्तेष्वपि गमनं कर्त्तव्यम् । यत्राल्पतरा संयमात्मविराधना। सङ्क्रमाभावे नोस्थलेनाऽपि गन्तव्यम् । तत्र चतुर्विध नोस्थले पूर्वमाक्रान्तनिष्प्रत्यपायेन उपलजलेन गन्तव्यम् । तदभावे अनाक्रान्तनिरपायेनाऽपि । उपलाद् वालुका अल्पसंहनना, तत उपलजलाभावे वालुकाजलेन गन्तव्यम् । वालुकायाः शुद्धपृथिवी स्वल्पतरसंहनना, ततो वालुकाजलाभावे शुद्धोदकेन गन्तव्यम् । सिकताजलादावप्याक्रान्ताऽनाक्रान्तादयो विशेषा अवगन्तव्याः । पजलं तु बहुप्रत्यपायम् अतः सर्वेषामुपलजलादीनामभावे तेन गम्यते, तत्राऽप्यगाधकर्दमे कण्टकादिरहितेऽपि न गम्यते । अस्ताघजलवत्तस्यापि गन्तुमशक्यत्वात् । एष सर्वोऽपि विधिः सचित्तपृथिव्याम् अचित्तपृथिव्यां पुनरप्कायादीनां संयोगाः कर्त्तव्यास्तद्यथापृथिवी सर्वत्राप्यचित्ता परमेकतोऽप्कायः अन्यतश्च वनस्पतिकायः । तत्र किमप्कायेन गम्यते किं वा वनस्पतिकायेन?,उच्यते-अप्काये नियमाद् वनस्पतिरस्ति तस्मात्तेन न गम्यते, वनस्पतिना तु गम्यते । तत्रापि परीत्तयोनिकेन स्थिरसंहननेन आक्रान्तेन निष्प्रत्यपायेन । अत्र षोडश भङ्गाः । तद्यथा-प्रत्येकयोनिकः स्थिर आक्रान्तो निष्प्रत्यपायः एष प्रथमो भङ्गः । सप्रत्यपायेन द्वितीयः । अनाक्रान्तेऽप्येवमेव द्वौ विकल्पौ । एवं स्थिरे चत्वारो विकल्पा लब्धाः। अस्थिरेऽप्येवं चत्वारः । एते प्रत्येकयोनिकेनाष्टौ भङ्गा लब्धाः । अनन्तयोनिकेऽप्येवमेवाष्टौ । एवंसर्वसङ्ख्यया वनस्पतिकाये षोडश भङ्गाः । एवमप्कायस्य त्रसैर्दीन्द्रियादिचतुर्विधैः सह संयोगाः कार्याः । तद्यथा-आक्रान्ताः स्थिरा निष्प्रत्यपायाः । एतैस्त्रिभिः A. जलमार्गे यत्पाषाणादेरन्यस्मिन् पाषाणादौ पादनिक्षेपः क्रियते स पाषाणादिः सण्डेवकः । B. वक्रीकृतकूपर = वांकी करायेली कोणी' इति भाषायाम्