________________
जइ - जीयकप्पो स्पर्शमात्रेऽपि विनाशसम्भवात् । उच्यते-घटादिस्थस्याऽप्कायस्यापि मनाक्करचरणादिना चालने सङ्घट्टः सम्भवति। परितापनं द्विधा-अगाढं गाढं च । तत्र सम्मईनचालनाद्यैर्बहुतरपीडोत्पादनमगाढं बहुतमपीडोत्पादनं च गाढम् । उपद्रवणं सर्वथा जीवविनाशनं । तच्च पृथिव्यग्न्योरत्यन्तसम्म नाद्यैः, अप्कायस्य तु वह्नितापनदण्डाद्यभिघातनपानपादादिक्षालनादिना, वायोस्तालवृन्ताभिघातादिना, वनस्पतेः पत्रपुष्पाङ्कुरादित्रोटनादिभिः। ततश्चैतेषां पञ्चानामपि पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां प्रत्येकं घट्टने भिन्नमासः । अगाढपरितापने लघुमासः। गाढपरितापने गुरुमासः । उपद्रवणे चतुर्लघु इति क्रमेणावसेयम् । अनन्ते अनन्तकायविषये घट्टने लघुमासः। अगाढपरितापने गुरुमासः । गाढपरितापने चतुर्लघुकाः । उपद्रवणे चतुर्गुरुकाः ।।४२।।
नववासवुट्ठिकिसलय-विराहणा जत्तिआणि दिवसाणि । तावइआ चउगुरुगा दसगं छप्पिआलसुइनासे ।।४३ ।।
(सड्डजीयकप्पो ९९) व्याख्या-अभिनववर्षाकालवृष्टौ यानि किसलयान्यनन्तकायरूपाणि भवन्ति । तेषां विराधना यावन्ति दिनानि स्यात् तावन्तश्चतुर्गुरुकाः प्रायश्चित्तम् । अयमभिप्रायः-वर्षाकाले किल प्रथमवृष्टौ जातायां सत्यां दिनत्रयं यावत् सूक्ष्माङ्कुरा अन्तर्मुहूर्त्तमात्रकालमनन्तकायरूपाः प्रायः सर्वत्र भूतले प्रति क्षणं प्रादुर्भवन्तो भवन्ति । ते च दुर्लक्षतया परिहर्तुं दुःशकाः, अतस्तदानीं तद्विराधनाभीरवः साधवो दिनत्रयं यावत् तत्परिहाराय यथाशक्ति यतन्ते । यतमानानामपि च साधूनां नवीनाङ्करविराधना यावन्ति दिनानि स्यात् तावन्ति चतुर्गुरूणि भवन्ति । तथा षट्पयालयो यूकागृह सूची सूचिकालयस्तयो शे प्रत्येकं दशकं प्रत्यासत्तेश्चतुर्गुरुकाणाम् ।।४३ ।।
आऊतेऊविज्जुप्फुसणे उक्कोसमज्झिमजहन्ने ।
चउलहु-गुरु-लहुमासो चउगुरुवग्घार सुहमे अ ।।४४।। व्याख्या-अप्तेजोविद्युताम् अप्कायतेजःकायविधुदुद्योतानां स्पर्शन संस्पर्शे उत्कृष्टमध्यमजघन्ये उत्कृष्टे मध्यमे जघन्ये च क्रमेण चतुर्लघुः (घु?) गुरुमासः, लघुमासश्च । बग्घार' त्ति । वग्धारिअं या अविच्छिन्नधारा वृष्टिः, यस्यां वा वर्षाकल्पो नीव्र वा थ्योतति, वर्षाकल्पं वा भित्त्वान्तःकायमार्द्रयति या वृष्टिः । तत्र सूक्ष्मे च महिकारूपेऽप्काये गमने चतुर्गुरु ।।४४।।
इगनइबहुसंघट्टे गुरुगो लहुगो अ एगसंघट्टे ।
लेवे लेवोवरि-कुंभ-तुंब-दइओडुगे लहुगा ।।४५।। व्याख्या-इह जलमार्गेण गच्छतां साधूनां संयमात्मविराधनादयोऽनेके दोषाः सम्भवन्ति । अतः कारणाभावे तन्मार्गेण न गन्तव्यम् , कारणेन तु यतनया गन्तव्यम् । तत्र चायं विधिः-नद्यादिजलं तावद् द्विधा स्ताघमस्ताघं च। यत्र नासिका न बुडति तत् स्ताघं, यत्र तु नासिका बुडति तदस्ताघम् । तत्र स्ताघजलं सङ्घट्टलेपलेपोपरिभिर्गम्यते।