________________
जइ - जीयकप्पो भिक्षोर्गुरुमासः, उपाध्यायस्य चतुर्लघु, आचार्यस्य चतुर्गुरु इत्यर्थः । इति दर्शनाचारातिचारप्रायश्चित्तमभिहितम् ।।४०।। साम्प्रतं चारित्राचारातिचारप्रायश्चित्तमाह
समिईसु अ गुत्तीसु अ लहुगो ओहेण असमिइ अगुत्ते ।
आणाइविराहणया विसेसओ भण्णिही उरिं ।।४१।। व्याख्या-इह समितयः पञ्च-ईर्यासमितिः, भाषासमितिः, एषणासमितिः, आदाननिक्षेपसमितिः, पारिष्ठापनिकासमितिः । गुप्तयस्तिस्रः-मनोगुप्तिः, वचनगुप्तिः, कायगुप्तिः । तत्र जन्तुजातरक्षानिमित्तं युगमात्रभूमिकान्तरदत्तदृष्टेरव्याक्षिप्तचित्तस्य प्रतिपदं चक्षुषा विशोधयतः साधोः संयमोपकरणाद्यर्थं या गमनक्रिया सा ईर्यासमितिः । मृदुमधुरानवद्यहितमितवचनभाषणं भाषासमितिः । सूत्रानुसारेण रजोहरणवस्त्रपात्राऽशनपाननिलयौषधान्वेषणम् एषणासमितिः । धर्मोपकरणानां प्रतिलेखनाप्रमार्जनापूर्वकमेव ग्रहणमोचनमादाननिक्षेपसमितिः। मूत्रमलश्लेष्मपुरीषादीनां विवेकार्ह-संसक्तभक्तपानादीनां वा जन्तुविरहिते स्थण्डिले विधिना परिष्ठापनं पारिष्ठापनिकासमितिः । सावद्यमनःसङ्कल्पगोपनं मनोगुप्तिः । सावद्यवचनरोधनं मौनेन वाऽवस्थानं वाग्गुप्तिः । कायव्यापारनिवारणं कायगुप्तिः । ननु समितिगुप्त्योः कः प्रतिविशेषः ?, उच्यतेसमितिर्व्यापाररूपा गुप्तिस्तु व्यापाराव्यापाररूपा । यदुक्तम्समितीण य गुत्तीण य एसो भेओ उ होइ नायब्बो । समिई पयाररूवा गुत्ती पुण उभयरूवा उ ।। समिओ नियमा गुत्तो गुत्तो समिअत्तर्णमि भइअबो । कुसलवयमुदीरितो जं वयगुत्तो वि समिओ वि ।। समिई पयाररूवा गुत्ती पुण हुँति उभयरूवा उ । कुसलवयमुदीरितो तेणं गुत्तो वि समिओ वि ।। गुत्तो पुण जो साहू अप्पविआराइ नाम गुत्तीए । सो न समिओ त्ति वुच्चइ तीसे उ विआररूवत्ता' ।।
(नि०भा० ३६ तः ३९) एतासु पञ्चसु समितिष्वसमिते तिसृषु गुप्तिष्वगुप्ते च ओघेन सामान्येन मासलघुकः । आज्ञाभङ्गादयो दोषा आत्मसंयमविराधना च स्यात् । विशेषतः पुनश्चारित्राचारातिचारप्रायश्चित्तं पञ्चमहाव्रतादिक्रमेण उपरिष्टाद् भणिष्यते ।।४१।। तत्र प्रथममहाव्रतातिचारप्रायश्चित्तं त्रयोदशगाथाभिः प्रतिपादयति
पुढवाइएसु घट्टणम-गाढ–गाढपरिआवणु-द्दवणे ।
भिन्नं लहु-गुरु-चउलहु अर्णति लहुगुरुलहुगगुरुगा ।।४२।। व्याख्या- पृथिव्यादिषु षष्ठीसप्तम्योरर्थं प्रत्यभेदात् पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां मनाक् स्पर्शनं सङ्घट्टनम्। अत्राह-ननु पृथिव्यादीनां चतुर्णां घटते सङ्घट्टनम्, अप्कायस्य तु कथं सङ्घट्टनं सम्भवति ? तस्य द्रवरूपत्वेन