________________
जइ - जीयकप्पो व्याख्या-इह साधुना सर्वेषां साधर्मिकाणां साध्वादीनामाहारवस्त्रपात्रभेषजौषधपादशौचाऽभ्यङ्गनविश्रामणादिभिः सर्वस्थाम्ना वात्सल्यं कर्त्तव्यम् , गुरुग्लानादीनां तु विशेषतः । तेषां तदकरणे प्रायश्चित्तम् , यथा-आचार्यग्लानाऽवात्सल्ये आचार्यग्लानयोर्वात्सल्याऽकरणे प्रत्येकं चत्वारो गुरुकाः । क्षपकप्राघुर्णकयोः क्षपकः तपस्वी विकृष्टतपःकारी प्राघुर्णको ग्रामान्तरादागतस्तयोर्वात्सल्याऽकरणे चत्वारो लघुकाः । बालवृद्धयोरवात्सल्ये गुरुको मासः । शैक्षे अभिनवप्रवृजिते महोदरे च बहुभोजिनि वात्सल्याऽविधाने लघुको मासः । चशब्दात् सामान्यतः साधर्मिकवात्सल्याऽकरणे लघुमासः ।।३८।। अथाऽप्रभावनाप्रायश्चित्तमाह
सामन्नेणं गुरुगा ससत्तिए अप्पभावणे अहवा ।
गुरुवसभभिक्खुथेरे खुड्डे गुरुगाइ भिन्नतं ।।३९ ।। व्याख्या-इह यद्यपि प्रवचनं शाश्वतत्वात्तीर्थकरभाषितत्वात् सुरासुरनरनमस्कृतत्वाद् वा स्वयमेव दीप्यते तथापि गुणाधिकपुरुषाः स्वस्य दर्शनशुद्धये प्रवचनं प्रभावयन्ति, ते च प्रवचनप्रभावका अतिशय्यादयः । उक्तं चअइसेसिइड्डिधम्मकहिवाइआयरिअ खवगनेमित्ती । विज्जा रायगणसंमया य तित्थं पभाविति ।'
__ (व्य०सू० ६४, नि०भा० ३३) अस्या अक्षरगमनिका-अतिशयी अवधि-मनःपर्यायज्ञानयुक्तोऽतिशय्यध्ययनो वा । ऋद्धिग्रहणात् राजामात्यादिः ऋद्धिमान् दीक्षाग्राहकः । आमर्पोषध्यादि ऋद्धिप्राप्तो वा । धर्मकथी आक्षेपणी-विक्षेपणी-निवेदनीसंवेदनीकथाभिर्यो धर्ममाख्याति । वादी वादलब्धिसम्पन्नः । आचार्यः स्वपरसिद्धान्तप्ररूपकः । क्षपकः तपस्वी। नैमित्तिकः अष्टाङ्गनिमित्तवेत्ता । वियाग्रहणात् विद्यासिद्धः । राजगणसंमताश्च । राजसंमता मन्त्र्यादयः गणसंमता महत्तरादयः, चशब्दाद् दानश्राद्धादिपरिग्रहः । एते तीर्थं प्रवचनं प्रभावयन्ति । शक्तौ सत्यामेतस्याऽप्रभावने च प्रायश्चित्तम्, तद्यथा-सामान्येन अविशेषेण स्वशक्तौ स्वसामर्थ्य सत्याम् अप्रभावने प्रवचनस्य चत्वारो गुरुकाः । अथवा पूर्वोक्ताः प्रभावकाः । एतेषां पञ्चानामाचार्यादीनामन्तर्गता अतस्तद्विभागेन दर्शयतिगुरुवृषभभिक्षुस्थविरक्षुल्लेषु गुरुकादि भिन्नान्तं प्रायश्चित्तम् । आचार्यस्य प्रवचनाऽप्रभावने चतुर्गुरुकाः । उपाध्यायस्य चतुर्लघुकाः । भिक्षोर्गुरुमासः । स्थविरस्य लघुमासः । क्षुल्लस्य भिन्नमास इत्यर्थः ।।३९।। अथाऽप्रशस्तोपबृंहादिकरणे प्रायश्चित्तमाह
मिच्छत्तीणं उववूह-भत्ति-थिरकरण-वच्छलाईसु ।
खुड्डुगभिक्खू-वसभाऽऽयरिए लहुगुरुलहुगगुरुगा ।।४०।। व्याख्या-मिथ्यात्विनां कुतीर्थप्रवृत्तजनानाम् उपबृंहा प्रशंसा, भक्तिः सेवा, स्थिरीकरणं वात्सल्यम्, आदिशब्दात् प्रभावना च । एतेषु क्षुल्लकभिक्षुवृषभाऽऽचार्याणामनुक्रमेण लघुगुरुलघुकगुरुकाः । क्षुल्लकस्य लघुमासः,