________________
जइ - जीयकप्पो संकाइसु तिसु देसे गुरुगा मूलं तु सबहिं होइ।
दिट्ठी(ट्टि?)मोहे अपसंसणे अथिर अकरणे लहुगा ।।३७।। व्याख्या-इह दर्शनाचाराऽतिचारोऽष्टधा । तद्यथा-शङ्का-ऽऽकाङ्क्षा विचिकित्साऽमूढदृष्टिरुपबृंहा स्थिरीकरणं वात्सल्यं प्रभावना चेति । तत्र संशयकरणं शङ्का । सा द्विधा-देशतः सर्वतश्च । तत्र देशतः तुल्येऽपि जीवत्वे कथमेके भव्या अपरे त्वभव्या ? इत्यादि । सर्वतस्तु प्राकृतभाषानिबद्धमिदं श्रुतम्, न ज्ञायते किं सर्वज्ञेन प्रणीतं आहोश्वित् कुशलमतिना केनापि परिकल्पितमिति १। अन्याऽन्यदर्शनग्रहणमाकाङ्क्षा । साऽपि देशत एक किञ्चित् कुतीर्थिकमतमाकाङ्क्षति । यथा-अस्मिन्नपि खल्वहिंसैव धर्मो मोक्षश्च फलमुच्यते । सर्वतः सर्वाणि-शाक्या-ऽऽजीवक-कपिल-बोटिको-लूक-वेद-तापसादिकुमतान्याकाङ्क्षति, कृषीबल इव सर्वधान्यवपनानि कदाचित् किञ्चित् फलतीति धिया २। विचिकित्सा आत्मनः फलं प्रत्यनाश्वासः, यथा-आसीत्तादृशानुष्ठायिनां पुरातनानां महासत्त्वानां मोक्षः अस्मादृशानां त्वस्नानकेशलुञ्चनादिकं कष्टमेव मन्दसत्त्वत्वात क्व मोक्षसम्भव ? इति देशतः स्तोकोऽनाश्वासः । सर्वतस्तु सर्वथाऽनाश्वासः । यद्वाविदक् ज्ञाने विदन्तीति क्विब्लोपे विदः साधवः तेषां जुगुप्सा । देशतोऽहो ! मलदुर्गन्धा इमे मुनयो यधुष्णोदकेन स्नायुस्तदा को दोषः स्यादि ? त्यादि। सर्वतस्तु मण्डल्यां नन्दिपात्रे मिथः संसृष्टभोजिनोऽमी गुप्तिगृहवासिन इव महामलीमसाङ्गवाससः प्रागदत्तदानत्वेनाऽऽजन्म भिक्षाचरा इत्यादि ३ । मूढदृष्टिः परतीर्थिनां राजादिकृतां पूजां मन्त्राद्यतिशयान् वा दृष्टवा, तदाऽऽगमान् वा श्रुत्वा मतिव्यामोहो देशतः स्तोकः । सर्वतस्तु सर्वथा ४ । उपबृंहा प्रशंसा । सा ज्ञान-दर्शन-तपः-संयम-वैयावृत्त्याद्युद्यतानां साध्वादीनामुत्साहवृद्धिहेतुः प्रशस्ता, मिथ्यादृशां-शाक्यचरकादीनां त्वसावप्रशस्ता ५। स्थिरीकरणं सीदतश्चारित्रादिषु स्थैर्यहेतुः प्रशस्तम्, असंयमविषये पुनस्तदप्रशस्तम् ६ । वात्सल्यम् आचार्यग्लानप्राघुर्णकतपस्विसेहासहबालवृद्धादीनामाहारोपध्यादिना समाधिसम्पादनं प्रशस्तम्, गृहस्थपार्श्वस्थाद्युपष्टम्भरूपं तु तदप्रशस्तम् ७ । प्रभावना च तीर्थकरप्रवचनादिविषया प्रशस्ता, कुतीर्थिकविषया त्वप्रशस्ता ८। इह चोपबृंहादीनां प्रशस्तानामकरणेऽतिचारता, अप्रशस्तानां तु करणे । देशसर्वभेदश्चोपळहादीनामपि शङ्कादीनामिव ज्ञेयः । इति दर्शनाचारातिचारस्याष्टौ भेदाः । तत्र शङ्कादिषु शङ्का-काङ्क्षा-विचिकित्सासु तिसृषु देशतो गुरुकाश्चत्वारः, सर्वतः पुनः शङ्कादिषु तिसृष्वपि मूलं सर्वपर्यायछेदो भवति । तपोऽर्हप्रायश्चित्ताधिकारेऽपि मूलमत्र लाघवार्थमभ्यधायि । दृष्टिमोहे मूढदृष्टौ अप्रशंसने ज्ञानदर्शनतपःसंयमादिगुणानामनुपबृंहायाम् अस्थिरीकरणे च चारित्रादिषु सीदतां स्थैर्यानापादने चत्वारो लघुकाः प्रायश्चित्तम् ।।३७।। अथाऽवात्सल्यप्रायश्चित्तं विषयविभागेनाऽऽह
गुरुगाऽऽयरिअगिलाणाऽवच्छल्ले लहुग खवगपाहुणए । गुरुगो अ बालवुड्ढे सेहे अ महोअरे लहुओ ।।३८।।