________________
जइ - जीयकप्पो मध्यमावज्ञायां गुरुमासः, उत्कृष्टावज्ञायां चतुर्लघव इत्यर्थः । अत्र वाशब्दः समुच्चये पूरणे वा ।।३३।। अथाविधिसूत्रार्थग्रहणादिविषयं प्रायश्चित्तमाह
भूअपमज्जणुओग-काल-अविसज्जणाइसु अ भिन्नं ।
अक्खनिसिज्जअविहि चउ-गुरु(रू?) असमायारि लहु(हू?) सेसे ।।३४।। व्याख्या-भूः भूमिः सूत्रमण्डल्यर्थमण्डल्योः प्रक्रमात् भोजनमण्डल्याश्च स्थानं, तस्या अप्रमार्जने अनुयोगकालाविसर्जनादिषु च । अनुयोगकालयोरविसर्जनम् अप्रतिक्रमणम् , आदिशब्दात् सम्पूर्णश्रुतस्कन्धपरावर्त्तनान्तरं कायोत्सर्गाकरणम्, तेषु भिन्न भिन्नमासः । अक्षनिषद्याऽविधौ अनुयोगकालेऽक्षाणामस्थापने गुरुयोग्याऽक्षयोग्यनिषद्ययोरकरणे चतुर्गुरवः । शेषे अविधौ अनुयोगग्रहणशेषविध्यकरणे असमाचारीनिष्पन्नो लघुमासः । तद्यथा-अनुयोगप्रारम्भे गुरूणां वन्दनकाऽदाने कायोत्सर्गाकरणे च लघुमासः ।।३४।। अथ श्रुतोपचारयोगस्य भङ्गे प्रायश्चित्तमाह
आगाढाणागाढस्स सबभगे अ देसभगे अ।
जोगस्स कमा छल्लहु चउगुरुचउगुरुगचउलहुगा ।।३५।। व्याख्या-योगो द्विधा-आगाढोऽनागाढश्च । उभयोरपि सर्वभङ्गोऽयं-यदाऽऽचामाम्लं न करोति विकृतीर्भुङ्क्ते। देशभङ्गस्तु-योगसमाप्तौ विकृती(क्त्वा पश्चाद्विकृत्यादानकायोत्सर्गं करोति, स्वयमेव वा गुरोरसमक्षं विकृत्यादानकायोत्सर्ग करोति, स्वयमेव वा गुरोरसमक्ष विकृत्यादानकायोत्सर्गं कृत्वा भुङ्क्ते । अभणितोऽपि वा गुरून् भणति-सन्दिशत विकृत्यादिकायोत्सर्गं करोमि, एकपात्रके विकृतिमाचामाम्लप्रायोग्यं वाऽऽदत्ते। इह क्रमाद्-यथाक्रममागाढयोगस्य सर्वभङ्गे षड्लघु । देशभङ्गे चतुर्गुरु । अनागाढयोगस्य सर्वभङ्गे चतुर्गुरुकाः। देशभङ्गे चतुर्लघुका इति ज्ञानाचारातिचारप्रायश्चित्तमुक्तम् ।।३५।। अधुना दर्शनाचारातिचारप्रायश्चित्ताधिकारः । तत्र दर्शनं-देवगुर्वादितत्त्वसम्यक्श्रद्धानलक्षणमतः प्रथम देवगुर्वाद्याशातनाविषयं प्रायश्चित्तमाह
जिणजिणहरठवणगुरू गुरु-आवलियाण तिविहऽवन्नाए ।
लहु-गुरु-लहुगा ठवणा-यरियावलि-नासि लहुगुरुगा ।।३६।। व्याख्या-जिना जिनबिम्बानि जिनगृहाणि जिनप्रासादाः स्थापनागुरवोऽक्षाद्या गुरवः प्रत्यक्षा आचार्यप्रभृतयः आवलिका जपमाला । एतेषां त्रिविधाऽवज्ञायां त्रिविधाशातनायां जघन्यमध्यमोत्कृष्टभेदायां यथाक्रम लघुगुरुलघुकाः। जिनबिम्बादीनां जघन्याशातनायां लघुमासः। मध्यमाशातनायां गुरुमासः । उत्कृष्टाशातनायां चत्वारो लघुका इत्यर्थः । स्थापनाचार्यावलिकानाशे लघुगुरुको स्थापनाचार्यनाशे लघुमासः, जपमालानाशे गुरुमास इति भावः । क्वचित्पुनरेवं-ठवणायरिआवलिआनासे गुरुगो अ आयामम् ।।३६ ।। अथ दर्शनाचाराऽतिचारप्रायश्चित्तमाह