________________
जइ - जीयकप्पो तेन सह वादे वा दीयमाने, यदि वाऽऽचार्यस्यान्यस्य वा साधोर्यो उपस्थाप्यः तस्य वाऽत्युत्कटे ग्लानत्वे जाते व्याकुलीभवनतः स्मरन्नस्मरन् वा यद्यपि नोपस्थापयति तथापि न तस्य प्रायश्चित्तम् , कारणतो व्याकुलीभवनात्। अथाऽऽचार्य उपाध्यायो वा यदा स्मरति तदा न साधकं नक्षत्रादिकम् , यदा तु साधकं नक्षत्रादिकं तदा बहु व्याक्षेपतो न स्मरति । एवं स्मरन्नस्मरँश्च कल्पाकं नोपस्थापयति । तत्र यदि तस्य कश्चिन्माननीयः कल्पाको भावी तदा तदपेक्षया तस्यानुपस्थापनेऽपि न प्रायश्चित्तम् । अथ नास्ति कश्चिन्माननीयः कल्पाको भावी तदा दशदिवसातिक्रमे चत्वारो गुरुकाः । ततः परं दशदिनातिक्रमे षड्लघुकम् । ततः परमपि दशदिनातिवाहने षड्गुरुकम् । ततोऽपि दश दिनातिक्रमे चतुर्गुरुकश्छेदः । ततोऽपि दशदिनातिक्रमे षड्लघुश्छेदः । ततोऽपि दशदिनातिक्रमे षड्गुरुकश्छेदः। तत एकैकदिनातिक्रमे मूलानवस्थाप्यपाराञ्चितानि । एष प्रथममादेशः, द्वितीयादेशे पुनस्तपसा छेदेन वाऽदम्यमानेऽथवा धृतिबलेन कायबलेन वा दुर्बले तपसश्छेदस्य वा दातुमशक्यतया संवत्सरं यावदाचार्यत्वहरणम, गणो हियते इति भावः । एवमपस्थापनाविषयो विधिनिशीथादौ विस्तरेणाभिहितः । तदन्यथाकरणे प्रायश्चित्तम् । तच्च- अप्पत्ते अकहित्ता' इत्यादि प्रस्तुतगाथयाऽत्र प्रतिपाद्यते । इति सैव साम्प्रतं प्रतन्यते । अप्राप्ते श्रुतेन पूर्वकाले शस्त्रपरिज्ञाध्ययनपर्यन्तेन सम्प्रति षड्जीवनिकायपर्यन्तेन पर्यायण वा षण्मासादिकेन। तथा-अकथयित्वा जीवाऽजीवान् बन्धं मोक्षं च । उपलक्षणमेतत् तेन पृथिव्यादयो जीवाः। धर्माधर्माऽस्तिकायादयोऽजीवा आश्रवो बन्धः पुण्यं पापं संवरो निर्जरा मोक्षश्च । एतान्नवपदार्थान् सभेदान् कर्मबन्धभेदहेतूंचाकथयित्वा । उपलक्षणत्वादनधिगते जीवाजीवादौ तथा षड्जीवनिकायरक्षाविषयपरीक्षाया अभावे । इदमुक्तं भवति-येन षड्जीवनिकायाध्ययनं पठितं, न च तस्यार्थः श्रुतः । अथ श्रुतः, परं नावगतः । अवगतोऽपि न श्रद्धानविषयीकृतः । यश्च षड्जीवनिकायरक्षाविषये न परीक्षितः तस्योपस्थापने क्रियमाणे उपस्थापयितुः प्रायश्चित्तं चत्वारो गुरुकाः । न केवलमेतत् प्रायश्चित्तं किन्त्वाज्ञादयो दोषाः । विराधना या पूर्वभणिता सा चेयम्-उपस्थापितो भिक्षादौ किल कल्पिको भवति । ततस्तस्य भिक्षादिप्रेषणे षण्णां जीवनिकायानां विराधना अपरिज्ञानात् । ततस्तन्निष्पन्नमपि प्रायश्चित्तं उपस्थापयितुरुपढौकते । स च महाव्रतानामयोग्योऽत्र मालया दृष्टान्तो, यथा-स्थाणौ शूलानाये पञ्चवर्णसुगन्धपुष्पमाला समारोप्यमाणा न शोभते। एवमयोग्येऽपि पञ्चमहाव्रतमाला न शोभते ।।३२।। एवं सूत्रार्थाप्राप्तोपस्थापनाविषयं प्रायश्चित्तमुक्तम्। अथ सूत्रार्थाऽऽशातनाविषयं तदाह
सामण्णेणं सुत्तासायणि चउलहुग चउगुरू अत्थे ।
लहुगुरुलहुगा वा तदुवगरणवन्नासु तिविहासु ।।३३।। व्याख्या सामान्येन ओघेनाऽऽगाढाऽनागाढाद्यविशेषेण सूत्राऽऽशातनायां सूत्रं परमाप्तप्रणीताऽऽगमरूपं तस्याऽऽशातनायामविधिपाठादिरूपायां चतुर्लघुकाः प्रायश्चित्तम् । अर्थे अर्थविषयायामाशातनायामविधिश्रवणादिरूपायां चतुर्गुरवः । तदुपकरणावज्ञासु त्रिविधासु । तस्य ज्ञानस्योपकरणानि पुस्तकपट्टिकादीनि, तेषामवज्ञास्वाशातनासु त्रिविधासु जघन्यमध्यमोत्कृष्टभेदासु यथाक्रमं लघुगुरुलघुका वा । जघन्यावज्ञायां लघुमासः, A. पाटी' इति भाषायाम् ।