Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 81
________________ जइ - जीयकप्पो प्रायश्चित्तं भवतीत्यर्थः । स्त्रीविकथायां तु निशीथे चतुर्गुरु । शेषे उक्तेभ्योऽवशिष्टे द्वितीयव्रतातिचारे सूक्ष्ममृषावादलक्षणे सर्वत्र लघुमासोऽसामाचारीनिष्पन्नः । एवमन्यत्रापि सर्वत्राऽसामाचार्यां लघुमासो मन्तव्यः । एतेषु पुनः स्थानेषु मृषावादोऽपि न दोषाय । यथाउड्डाहरक्खणट्ठा संजमहेउं व बोहिगे तेणे । खित्तम्मि व पडिणीए सेहे वा खिप्पलोए वा' ।। (नि०भा० ३२१ तथा ८८५) यदि धिग्जात्यादयः पृच्छन्ति-यूयं कथं भुञ्जीध्वम् ? तदा वक्तव्यं वयं भुजीमहि कमढकादिषु । कमढकं नाम करोडकाकारं काष्ठमयं भाजनम् । एवमादिको मृषावाद उड्डाहरक्षार्थं वक्तव्यः । यदि केचिल्लुब्धकादयः पृच्छन्ति-कुतोऽत्र भगवन् ! दृष्टा मृगाः शूकरा वा ? दृष्टेष्वपि न दृष्टा इति, न शृणोमीति वा वक्तव्यं तूष्णीको वा तिष्ठति । एवं संयमहेतोम॒षा वक्तव्यम् । बोधिकगृहीतो वा अब्राह्मणोऽपि ब्राह्मणोऽहमिति ब्रवीति । स्तेनगृहीतो वा भणति-एष सार्थ एति तान् चौरान भणति नश्यत इति । रक्तपटपरिव्राजकादिप्रत्यनीकभावित क्षेत्रे उपासकाः शठतया परमार्थेन वा पृच्छन्ति भगवन् ! यद् वयं रक्तपटादीनां दानं दद्मः, एतस्य फलं किमस्ति न वा ? एवं पृष्टो भणति-दानस्य नास्ति नाश इति । यद्यपि तेषां दानं दत्तमफलं तथाप्येवं वक्तव्यं मा ते रुष्टा अनर्थं कुर्युरिति कृत्वा । शैक्षो वा प्रव्रज्याभिमुख आगतः प्रवृजितो वा तं च स्वजनाः पृच्छन्ति, तत्र जानन्तोऽपि भणन्ति-न जानीमो न वा दृष्ट इति । शैक्षस्य वा अनधिसहिष्णोर्लोचे क्रियमाणे बहावपि तिष्ठति एवं वक्तव्यम्-एष समाप्तो लोचः स्तोकं तिष्ठति । अन्यच्च साधोर्लोचे क्रियमाणे तत्रस्थित एव शक्रो देवराजश्छत्रमभिधारयति । एषा कल्पिका सेवा । इत्युक्तं द्वितीयमहाव्रतातिचारविषयं प्रायश्चित्तम् ।।८१।। सम्प्रति तृतीयमहाव्रतातिचारप्रायश्चित्तं किञ्चिद्विशेषेणाह तण-डगल-छार-मल्लग पणगं लेवित्तरेसु लहुगो उ । दवादविदिन्ने पुण जिणेहिं उवही उ निष्फन् ।।८।। (नि०भा० ३३२) व्याख्या-इह अदत्तादानं द्विधा-लौकिकं लोकोत्तरं च । तत्र लौकिकं द्रव्य-क्षेत्र-काल-भावभेदैश्चतुर्द्धा । लोकोत्तरं तु द्विधा-सूक्ष्मं बादरं च । तत्र सूक्ष्मं स्वल्पं बादरं नाम बहुकम् । अथवा यत्र पञ्चकं प्रायश्चित्तं स्यात् तत्सूक्ष्मम् , शेषं बादरम् । अनयोः क्रमेण प्रायश्चित्तम् , तद्यथा-तृणानि कुशादीनि, डगलकानि उपलादीनि, क्षारो भस्म, मल्लकः शरावः, एतेषु अदत्तेषु गृहीतेषु पञ्चकाख्यं प्रायश्चित्तं भवति । लेपो येन भाजनं लिप्यते तस्मिन्नदत्ते गृहीते । इत्तरेसु' त्ति । पन्थानं व्रजन् यत्र वृक्षाधोभागच्छायादिषु विश्राम गृहीतुकामस्तत्रावग्रहं

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226