Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 124
________________ जइ - जीयकप्पो एषोऽनुधर्मः प्रवचनस्य तीर्थस्य सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रोपहतपरिहारलक्षण एष एव धर्मोऽनुगन्तव्य इति भावः । एवं प्रलम्बान्यपि तीर्थकरादिभिरनाचीर्णानि पाश्चात्यैरपि परिहर्त्तव्यानि । तथा अवमकाले असंस्तरणे प्रलम्बग्रहणे इयं यतनाबत्तीसाई जा इक्कघास खवणं व नवि अ से हाणी । आवस्सएसु अत्थओ जा छम्मासे न य पलंबे' ।। (बृ०क० १०७६, नि०भा० ४९३९) ओदनस्य द्वात्रिंशत् कवलाः पुरुषस्य प्रमाणप्राप्त आहारः । यदि ते एकेन कवलेन न्यूनाः प्राप्यन्ते ततस्तैरेव तिष्ठतु । यदि से तस्य साधोरावश्यकेषु अवश्यकृत्ययोगेषु हानिर्नापि नैव भवति, न च प्रलम्बानि गृह्णातु। एवं द्वाभ्यां कवलाभ्यां न्यूनाः द्वात्रिंशत् कवला लभ्यन्ते तैस्तिष्ठतु यदि तस्यावश्यकयोगा न परिहीयन्ते । एवमेकैकं कवलं परिहापयता तावद्वक्तव्यं यावद्ययेको ग्रासः कवलः प्राप्यते ततस्तेनैवास्ताम् । यदि तस्याऽऽवश्यकयोगा न परिहीयन्ते मा च प्रलम्बानि गृह्णातु । अथैकोऽपि कवलो न प्राप्यते तत एकं दिवसं क्षपणमुपवासं कृत्वा आस्तां द्वितीयदिवसे द्वात्रिंशत्कवलैः पारयतु । यदि तावन्तो न लभ्यन्ते, तत एकैककवलपरिहाण्या तावद्वक्तव्यं यावद्योकोऽपि कवलो न लब्धः । ततः षष्ठं कृत्वा समाधिसौधमध्यास्ताम् । षष्ठस्य च पारणके प्रमाणप्राप्तमाहारमुपादत्ताम् । अथ न लभ्यते ततः पूर्वोक्तयुक्त्या यावदेकोऽपि कवलो न लभ्यते । ततोऽष्टमं कृत्वा तिष्ठतु । मा च प्रलम्बान्याददीत । एवमनयैव दिशा दशमादिकमुत्तरोत्तरक्षपणं वर्द्धयता तावन्नेतव्यं यावत् षण्मासक्षपणं करोतु यद्यावश्यकयोगा न परिहीयन्ते मा च प्रलम्बानि गृह्णातु । एवमादि प्रकारेण प्रलम्बविषया यतना प्रकल्पादौ विस्तरेण प्रदर्शिता तत एवावसेया । एवं खादिमाहारविषयं प्रायश्चित्तं भणितम् । अथ स्वादिमाहारविषयं भण्यते । साइमि लवंगपूआइए गुरुग' (मूलगाथा १७४) त्ति । स्वादिमाहारमध्ये लवङ्गपूगादिके लवङ्गं देवकुसुमम्, पूगं पूगीफलम्, आदिशब्दात् खदिरवटिकाजातीयफलादिग्रहः । तस्मिन् गृहीते गुरुकाश्चत्वारो मासा भवन्तीति चतुर्विधाहारविषयं प्रायश्चित्तमुक्तम् ।।१७४।। अथात्र प्रतिपदमाज्ञाभङ्गादयो ये दोषाः प्रोच्यन्ते तद्विषयं प्रायश्चित्तमाह आणाभंगे चउगुरु लहुगा मिच्छे तहाणवत्थाए । गुरुगा आयविराहणि संजमि वयकायनिष्फन्न ।।१७५।। व्याख्या-इयं गाथा सामान्यविषयाऽपि प्रलम्बप्रक्रमात् प्रलम्बविषया प्रदीत । तद्यथा-भगवता प्रतिषिद्धं यत् प्रलम्बं न कल्पते, तद् ग्रहणं कुर्वता भगवतामाज्ञाभङ्गः कृतो भवति । तस्मिँश्चाऽऽज्ञाभने चतुर्गुरुकाः । अत्राह परःअवराहे लहुगतरो आणाभंगम्मि गुरुतरो किह णु ? आणाइच्चिअ चरणं तभंगे जाण किं न भग्गं नु' ।। (बृ०क० ९२४, नि०भा० ४७८३) A. निशीथादौ ।

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226