Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो आसुररक्खसभागे गुरुगजणमाइदूसिए वत्थे ।
पिंडम्मि व वत्थम्मि वि पच्छित्तं सेसदोसेसु ।।१९४ ।। व्याख्या-इह यद्वस्त्रं प्रथमं लभ्यमानं भवति, तस्य प्रथमतस्त्रयो भागाः कल्प्यन्ते । भूयोऽप्येकैको भागस्त्रिधा विभज्यते । एवं नवभागीकृते वस्त्रे ये चत्वारः कोणकास्ते देवसम्बन्धिनो भागाः । यौ द्वावञ्चलमध्यभागौ तौ मनुष्यसम्बन्धिनौ । यौ च द्वौ भागौ कर्णपट्टिकामध्यलक्षणौ तावसुरसम्बन्धिनौ । सर्वमध्यगतः पुनरेको भागो राक्षससत्कः । यदुक्तम्घउरो अ दिबिआ भागा दुवे भागा य माणुसा । आसुरा य दुवे भागा मझे वत्थस्स रक्खसो' ।।
(नि०भा० ५०८८, बृ०क० २८३३) एतेषु च नवसु भागेषु अञ्जनखअनकर्दमैः खरण्टितेषु मूषककंसारिकादिभिर्भक्षितेषु अग्निना दग्धेषु तुन्नितेषु रजककुट्टनेन पतितछिद्रेषु जीर्णेषु कुत्सितवर्णान्तरसंयुक्तेषु फलमिदमवबोद्धव्यम् । दिव्वेसु उत्तमो लाभो माणुसेसु अ मज्झिमो । आसुरेसु अ गेलनं मज्झे मरणमाइसे' ।।
(नि०भा० ५०८९, बृ०क० २८३४) ततो यो द्वावासुरौ भागौ यश्चैको राक्षसो भागः, एतेषु त्रिषु भागेषु यद्वस्त्रमअनादिभिरादिशब्दात् खञ्जनकर्दममूषकाग्न्यादिभिर्दूषितं भवति, तस्मिन् वस्त्रे गृह्यमाणे गुरुकाश्चत्वारो भवन्ति । आत्मविराधनासद्भावात् आज्ञा च भगवतां विराधिता भवति । अतो यद्वस्त्रं निर्दोषं लक्षणोपेतं च स्यात् तत्साधुभिः संयमनिर्वाहनिमित्तं ग्राह्यं न पुनः कृत्स्नं वस्त्रम् । तच्च चतुर्धा-द्रव्यकृत्स्नम्, क्षेत्रकृत्स्नम्, कालकृत्स्नम् , भावकृत्स्नं च । तत्र यत्सदशं प्रमाणातिरिक्तं वा वस्त्रं तद्रव्यकृत्स्नम् । यद्वस्त्रं यत्र क्षेत्रे दुर्लभं बहुमूल्यं वा तत्तत्र क्षेत्रकृत्स्नम् । यद्वस्त्रं यस्मिन् काले अर्थितं (अर्पितं - बहुमूल्यं) दुर्लभं वा तत्तस्मिन् काले कालकृत्स्नम् , यथा ग्रीष्मे काषायवस्त्रं शिशिरे प्रावारादि वर्षासु कुमादिखचितम् । भावकृत्स्नं द्विधा–वर्णतो मूल्यतश्च । वर्णतः पञ्चविधं वर्णाढ्यं यथा-कृष्णं मयूरग्रीवासन्निभम् , नीलं शुकपिच्छसन्निभम्, रक्तम् इन्द्रगोपकसन्निभम् , पीतं सुवर्णच्छवि, शुक्लं शद्धेन्दुसन्निभं तदेवंविधं वर्णकृत्स्नम् । द्रव्यादिकृत्स्ने वर्णकृत्स्ने चोत्कृष्टे चतुर्लघु, मध्यमे मासलघु, जघन्ये पञ्चकम् । मूल्यकृत्स्नं पुनस्त्रिविधं-जघन्यं मध्यमं उत्कृष्टं च । तत्र यस्याष्टादश रूपका मूल्यं तज्जघन्यम् , लक्षरूपकमूल्यमुत्कृष्टम् , शेषं मध्यमम् । रूपकप्रमाणं चेदं-द्वीपसत्करूपकद्विकेनोत्तरापथरूपक एकः स्यात् तद्वयेन चैकः पाटलिपुत्रीयो रूपकः । अथवा दक्षिणापथरूपकद्वयेन काञ्चिपुरीयरूपकः एकः स्यात् तवयेन च पाटलिपुत्रीय एकः एवंविधो रूपकोऽत्रावगन्तव्यः । १८ रूपके मूल्ये वस्त्रे लघुमासः, २० रूपके चतुर्लघु, १०० रूपके चतुर्गुरु, २५० रूपके षड्लघु, ५०० रूपके षड्गुरु, सहस्ररूपके छेदः, दशसहस्ररूपके मूलम्, पञ्चाशत्सहस्ररूपकमूल्ये अनवस्थाप्यम्, लक्षरूपकमूल्ये पाराञ्चितम् । पात्रे

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226