Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 135
________________ जइ - जीयकप्पो यदि स्वलिङ्गोपधिना शीर्षावरणे कृते ज्ञायते तदा गृहिकाषायादिवस्त्रं गृहीत्वा करोति । एवं यथा न ज्ञायते तथा तथा करोति । एषा यतना । तथा पिण्डवत् वस्त्रेऽपि शेषदोषेषु प्रायश्चित्तं प्रतिपत्तव्यम् । अयमर्थः-यथा पिण्डविषयेषु उद्गमोत्पादनैषणासंयोजनालक्षणेषु दोषेषु पूर्वं प्रायश्चित्तं प्रदर्शितं तथा वस्त्रविषयेष्वपि शेषेषु-उक्तेभ्योऽवशिष्टेषु उद्गमोत्पादनैषणासंयोजनारूपेषु दोषेषु प्रायश्चित्तमवगन्तव्यम् ।। १९४।। अथ वस्त्राऽप्रतिलेखनाविषयं प्रायश्चित्तमाह लहुगा गुरुगो लहुगो उक्कोसादुवहि अपडिलेहाए । दोसेहि उपेहते कमेण लहुभिन्नपणगाई ।।१९५।। व्याख्या-उत्कृष्टायुपधीनामप्रतिलेखनायां क्रमेण लघुका गुरुको लघुकश्च प्रायश्चित्तं भवति । उत्कृष्टमुपधिं न प्रत्युपेक्षते चत्वारो लघुकाः, मध्यमं न प्रत्युपेक्षते गुरुमासः, जघन्यं न प्रत्युपेक्षते लघुमास इत्यर्थः । कल्पव्यवहारयोस्तु मध्यमे लघुमासः । जघन्ये पञ्चकम् । अथारभटासम्मर्दामोसलीप्रभृतिभिर्दोषैर्दुष्टं प्रत्युपेक्षते ततः क्रमेणोत्कृष्टे लघुमासः, मध्यमे भिन्नमासः, जघन्ये रात्रिंदिवपञ्चकम् । उपघेरप्रतिलेखने चाऽऽज्ञाभङ्गादयो दोषाः । इमे च संयमदोषाः-अप्रतिलेखिते लूतापूटकं सम्बध्यते । पनको भवति । गृहकोकिला प्रसूते । हृतं नष्टं वाऽस्मारितं भवति । ग्रीष्मे वृश्चिकसर्पादयः प्रविशन्त्यप्रतिलेखिते तैरात्मविराधना भवति । भ्रमरी वा गृह कुर्यात् । यस्मादेते दोषाः तस्मात् सर्वोपधिसिन्ध्यं प्रतिलेखनीयः । कारणेषु पुनरप्रतिलेखनेऽपि न दोषः । तानि चेमानि असिवे ओमोदरिए गेलन्नद्धाण संभमभए वा । तेणपउरसागारे संजमहेउं च बिइअपयं' ।। अशिवगृहीतो न शक्नोति प्रतिलेखनां कर्तुं तत्प्रतिचारका वा व्याकुलत्वात् । अवमे प्रगे एवारब्धा हिण्डितुं प्रतिलेखनाया नास्ति कालः, ग्लानो न शक्नोति, एकाकी अध्वनि सार्थवशो न प्रत्युपेक्षते, अग्न्यादिसम्भ्रमे वा बोधिकादिभये वा स्तेने वा प्रचुरे सारोपधि मा पश्यत्विति न प्रत्युपेक्षते । सागारिके वा कृत्स्नोपधिं न प्रत्युपेक्षते । संयमहेतोर्वा महिकाभिन्नवर्षसचित्तरजस्सु द्वितीयपदेनाऽप्रतिलेखयन्नपि शुद्धः । प्रत्युपेक्षणा चाऽन्यूनाधिका क्रमेण कर्त्तव्या । तत्र षट् पुरिमा नव खोटका नव प्रमार्जनाश्च भवन्ति । ततो यदि न्यूना अधिका वा क्रियन्ते ततोऽशुद्धा । वेलायां च न्यूनायामधिकायां वा क्रियते ततोऽप्यशुद्धा । अतो वेलायामेव विधेया प्रत्युपेक्षणा । वेला च प्रातस्तदा स्याद् यदा आवश्यकानन्तरं मुखवस्त्रिका-रजोहरण-निषद्याद्वयचोलपट्ट-कल्पत्रय- संस्तारको- त्तरपट्ट-दण्डकेषु एतेष्वेकादशसूपकरणेषु प्रतिलेखितेषु सूर्य उदेति । क्रमश्चायम्-प्रातः प्रतिलेखनायां पूर्व मुखवस्त्रिका ततो रजोहरणं ततोऽन्तर्निषद्या ततो बाह्यनिषद्या, चोलपट्टः, कल्पत्रयम्, उत्तरपट्टः, संस्तारकपट्टः, दण्डकश्च । एष क्रमोऽन्यथा उत्क्रमः । पुरुषेषु पुनरयं क्रमःपूर्वमाचार्यस्य पश्चात् परिज्ञावतस्ततो ग्लानशेक्षादीनाम् । अन्यथा उत्क्रमः । उत्क्रमेच उत्कृष्टमध्यमजघन्योपधिष क्रमेण चतुर्लघु- लघुमास-पञ्चकानि प्रायश्चित्तम् । प्रतिलेखनां च कुर्वता आरभटादयः षड् दोषास्त्याज्याः ।

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226