________________
जइ - जीयकप्पो यदि स्वलिङ्गोपधिना शीर्षावरणे कृते ज्ञायते तदा गृहिकाषायादिवस्त्रं गृहीत्वा करोति । एवं यथा न ज्ञायते तथा तथा करोति । एषा यतना । तथा पिण्डवत् वस्त्रेऽपि शेषदोषेषु प्रायश्चित्तं प्रतिपत्तव्यम् । अयमर्थः-यथा पिण्डविषयेषु उद्गमोत्पादनैषणासंयोजनालक्षणेषु दोषेषु पूर्वं प्रायश्चित्तं प्रदर्शितं तथा वस्त्रविषयेष्वपि शेषेषु-उक्तेभ्योऽवशिष्टेषु उद्गमोत्पादनैषणासंयोजनारूपेषु दोषेषु प्रायश्चित्तमवगन्तव्यम् ।। १९४।। अथ वस्त्राऽप्रतिलेखनाविषयं प्रायश्चित्तमाह
लहुगा गुरुगो लहुगो उक्कोसादुवहि अपडिलेहाए ।
दोसेहि उपेहते कमेण लहुभिन्नपणगाई ।।१९५।। व्याख्या-उत्कृष्टायुपधीनामप्रतिलेखनायां क्रमेण लघुका गुरुको लघुकश्च प्रायश्चित्तं भवति । उत्कृष्टमुपधिं न प्रत्युपेक्षते चत्वारो लघुकाः, मध्यमं न प्रत्युपेक्षते गुरुमासः, जघन्यं न प्रत्युपेक्षते लघुमास इत्यर्थः । कल्पव्यवहारयोस्तु मध्यमे लघुमासः । जघन्ये पञ्चकम् । अथारभटासम्मर्दामोसलीप्रभृतिभिर्दोषैर्दुष्टं प्रत्युपेक्षते ततः क्रमेणोत्कृष्टे लघुमासः, मध्यमे भिन्नमासः, जघन्ये रात्रिंदिवपञ्चकम् । उपघेरप्रतिलेखने चाऽऽज्ञाभङ्गादयो दोषाः । इमे च संयमदोषाः-अप्रतिलेखिते लूतापूटकं सम्बध्यते । पनको भवति । गृहकोकिला प्रसूते । हृतं नष्टं वाऽस्मारितं भवति । ग्रीष्मे वृश्चिकसर्पादयः प्रविशन्त्यप्रतिलेखिते तैरात्मविराधना भवति । भ्रमरी वा गृह कुर्यात् । यस्मादेते दोषाः तस्मात् सर्वोपधिसिन्ध्यं प्रतिलेखनीयः । कारणेषु पुनरप्रतिलेखनेऽपि न दोषः । तानि चेमानि
असिवे ओमोदरिए गेलन्नद्धाण संभमभए वा । तेणपउरसागारे संजमहेउं च बिइअपयं' ।। अशिवगृहीतो न शक्नोति प्रतिलेखनां कर्तुं तत्प्रतिचारका वा व्याकुलत्वात् । अवमे प्रगे एवारब्धा हिण्डितुं प्रतिलेखनाया नास्ति कालः, ग्लानो न शक्नोति, एकाकी अध्वनि सार्थवशो न प्रत्युपेक्षते, अग्न्यादिसम्भ्रमे वा बोधिकादिभये वा स्तेने वा प्रचुरे सारोपधि मा पश्यत्विति न प्रत्युपेक्षते । सागारिके वा कृत्स्नोपधिं न प्रत्युपेक्षते । संयमहेतोर्वा महिकाभिन्नवर्षसचित्तरजस्सु द्वितीयपदेनाऽप्रतिलेखयन्नपि शुद्धः । प्रत्युपेक्षणा चाऽन्यूनाधिका क्रमेण कर्त्तव्या । तत्र षट् पुरिमा नव खोटका नव प्रमार्जनाश्च भवन्ति । ततो यदि न्यूना अधिका वा क्रियन्ते ततोऽशुद्धा । वेलायां च न्यूनायामधिकायां वा क्रियते ततोऽप्यशुद्धा । अतो वेलायामेव विधेया प्रत्युपेक्षणा । वेला च प्रातस्तदा स्याद् यदा आवश्यकानन्तरं मुखवस्त्रिका-रजोहरण-निषद्याद्वयचोलपट्ट-कल्पत्रय- संस्तारको- त्तरपट्ट-दण्डकेषु एतेष्वेकादशसूपकरणेषु प्रतिलेखितेषु सूर्य उदेति । क्रमश्चायम्-प्रातः प्रतिलेखनायां पूर्व मुखवस्त्रिका ततो रजोहरणं ततोऽन्तर्निषद्या ततो बाह्यनिषद्या, चोलपट्टः, कल्पत्रयम्, उत्तरपट्टः, संस्तारकपट्टः, दण्डकश्च । एष क्रमोऽन्यथा उत्क्रमः । पुरुषेषु पुनरयं क्रमःपूर्वमाचार्यस्य पश्चात् परिज्ञावतस्ततो ग्लानशेक्षादीनाम् । अन्यथा उत्क्रमः । उत्क्रमेच उत्कृष्टमध्यमजघन्योपधिष क्रमेण चतुर्लघु- लघुमास-पञ्चकानि प्रायश्चित्तम् । प्रतिलेखनां च कुर्वता आरभटादयः षड् दोषास्त्याज्याः ।