SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो तत्र यद्विपरीतं करणं त्वरितमन्यान्यवस्त्रग्रहणं वा सा आरभटा १, वस्त्रस्य मध्यप्रदेशे कोणाः संवलिता यत्र भवन्ति सा सम्मर्दा तत्रैवोपधावुपवेश्य यत् प्रत्युपेक्षणां करोति सा वा सम्मर्दा २, यत्र प्रत्युपेक्षणे वस्त्रमूर्वं पीठिषु तिर्यक् कुड्ये अधश्च भूमौ लगति सा मोसली ३, यथा गृहस्थो रेणुगुण्डितं वस्त्रं प्रस्फोटयति एवं यद्वस्त्रस्य प्रस्फोटनं सा प्रस्फोटना ४, वस्त्रं प्रतिलेख्य यदन्यत्र क्षिपति वस्त्राञ्चलानां वा यदूर्ध्वं क्षेपणं सा विक्षिप्ता ५। वेदिका पञ्च प्रकारा । तद्यथा-ऊर्ध्ववेदिका, अधोवेदिका, तिर्यग्वेदिका, उभयतो वेदिका, एकतो वेदिका च । तत्रोवेदिका यदि जानुनोरुपरि हस्तौ च कृत्वा प्रतिलेखयति । अधोवेदिका जानुनोरधो हस्तौ कृत्वा प्रत्युपेक्षते । तिर्यग्वेदिका सन्दशकमध्येन हस्तौ नीत्वा प्रतिलेखयति । उभयतो वेदिका हस्तयोरन्तरे जानुद्वयं कृत्वा प्रतिलेखयति । एकतो वेदिका हस्तयोरन्तरे एकं जानु कृत्वा प्रतिलेखयति (इति पंचप्रकारा वेदिका) ६। एते षड्दोषाः । प्रतिलेखनाविधिस्तु सम्पूर्ण ओघनियुक्तितोऽवसेयः (ओ०नि० २६६) तथा प्रत्युपेक्षमाणः षट्सु कायेषु आत्मना प्रतिष्ठितः उपधिर्वा तेषु प्रतिष्ठित इत्यत्र चतुर्भङ्गी । तद्यथा-स्वयं कायेषु प्रतिष्ठितो नोपधिः, उपधिः प्रतिष्ठितो न स्वयम् , स्वयमपि प्रतिष्ठित उपधिरपि प्रतिष्ठितः, स्वयमप्यप्रतिष्ठितः उपधिरप्यप्रतिष्ठितः । ते च षट्काया मिश्रा वा सचित्ता वा भवेयुस्तेषु च साधुरुपधिर्वा अनन्तरं परम्परं वा प्रतिष्ठितो भवेत् । अत्राऽऽद्यभङ्गत्रये स्वस्थानप्रायश्चित्तं प्रागुक्तं षट्कायविराधनाविषयं प्रायश्चित्तमिति भावः । चतुर्थो भङ्गो विशुद्धः । अथ द्वीन्द्रियादित्रसानां शाल्यादिबीजानामस्थिरसंहननिनां रक्षार्थं कायेष्वपि पृथिव्यादिषु दृढसंहननिषु कारणतः प्रत्युपेक्षणा भवति न च प्रायश्चित्तम् । आह-तेषु प्रतिष्ठितः प्रत्युपेक्षणं कुर्वन् सङ्घट्टनादिबाधाविधानात् कथं न दोषभाग भवतीति ? उच्यते-नदीहरणोपलक्षितं पुत्रज्ञातमत्र-यथा कश्चित् पुरुषः तस्य द्वौ पुत्रौ । तयोरेकः कृशो द्वितीयः स्थूलः । स चान्यदा ताभ्यां सहितः कश्चिद् ग्रामं गच्छन् अपान्तराले एकामपारगभीरा नदीमवतीर्णवान्। स च नदीष्णतया सुखेनैव स्वयं तां तरीतुं शक्तः पुत्रौ तु न तरणकलाकुशलौ । ततः स यदि समर्थः तदा द्वावपि पुत्रावुत्तारयेत् । अथाऽसमर्थस्तर्हि यः कृशस्तं तारयति, लघुशरीरतया तस्य सुखेनैव तारणीयत्वात् । यस्तु स्थूलस्तमुपेक्षते, निजशरीरबहुभारेणात्मानं तं च नद्यां बोलयतीतिकृत्वा । एष दृष्टान्तः । अयमर्थोपनयः- पितृस्थानीयः साधुः । पुत्रद्वयस्थानीयः स्थिराऽस्थिरसंहनिनः पृथिवीकायादयः । ततः साधुना प्रथमतो निर्विशेषषडपि कायाः स्थिरसंहननिनोऽस्थिरसंहननिनोश्च रक्षणीयाः। अथाऽन्यतरेषां विराधनामन्तरेणाध्वगमनादिषु प्रत्युपेक्षणादि न स्यात् ततः स्थिरसंहननिनां पृथिव्यादीनां विराधनामभ्युपेत्याप्यस्थिरसंहननिनस्त्रसादयो रक्षणीया इति । पुनरुपधिविषयमेव प्रायश्चित्तमाह तिविहोवहिणो विच्चुअविस्सारिअ-पेहिआ-निवेइअए । तह पाडिअलद्धे वि हु भिन्नं लहु गुरु लहुग सबे ।।१९६।। A. मोटी अने ऊंडी' इति भाषायाम् । B. मदीनी ऊंडाई - प्रवाह विगेरेने जाणनारो (नदीनो अनुभवी)' इति भाषायाम् ।
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy