________________
११
जइ - जीयकप्पो व्याख्या-द्विविधाः साधवो-जिनकल्पिकाः स्थविरकल्पिकाश्च । उपधिरपि द्विविध औधिक औपग्रहिकश्च । इहायं प्रागुक्तोऽप्यनुस्मरणार्थमत्रापि लिख्यते
ओहेण जस्स गहणं भोगो पुण कारणे स ओहोही । जस्स य दुगंपि नियमा कारणओ सो उवग्गहिओ' ।। जिनकल्पिकसाधूनां चोपधिरष्टधा । तद्यथा-द्विविधः, त्रिविधः, चतुर्विधः, पञ्चविधः, नवविधः, दशविधः, एकादशविधः, द्वादशविधश्चेत्यष्टौ भेदाः । एषां च मध्ये कोऽपि केषाञ्चिज्जिनकल्पिकानां भवति । उक्तं चबिअ-तिअ-चउक्क-पणगं-नव-दस-इक्कारसेव बारसगं । एए अट्ठ विगप्पा उवहिम्मि उ हुंति जिणकप्पे।। रयहरणं मुहपत्ती दुविहो कप्पिक्कजुत्ततिविहो उ । रयहरणं मुहपुत्ती दुकप्प एसो चउद्धा उ ।। तिन्नेव य पच्छागा रयहरणं चेव मुहपुत्ती । पाणिपडिग्गहिआणं एसो उवही उ पंचविहो ।। पत्तगधारीणं पुण नवाइभेआ हवंति नायव्वा । पुबुत्तोवहिजोगा जिणाण जा बारसुक्कोसा' ।। सप्तप्रकारपात्रोपधिधारिणां पूर्वोक्तद्वित्रिचतुष्पञ्चप्रकारोपधियोगान् नवदशैकादशद्वादशाख्या भेदाः क्रमेण ज्ञेयाः। पत्तं पत्ताबंधो पायठवणं च पायकेसरिआ । पडलाइं रयत्ताणं च गुच्छओ पायनिज्जोगो ।। तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपुत्ती । एसो दुवालसविहो ओही जिणकप्पिआणं तु ।। एए चेव दुवालस मत्तगमइरेगचोलपट्टो अ । एसो चउद्दसविहो ओही पुण थेरकप्पमि' ।।
(नि०भा० १३९३, १३९४, १३९५, ओ०नि० ६६९, ६७०, ६७१) एष त्रिविधो जघन्य-मध्यमो-त्कृष्टभेदात् । तत्र मुखवस्त्रिका पात्रकेसरिका गुच्छकः पात्रस्थापनं चेतिचतुर्विधो जघन्यः, पटलानि रजस्त्राणं पात्रकबन्धश्चोलपट्टको मात्रकं रजोहरणं चेति षड्विधो मध्यमः, पतद्ग्रहः कल्पत्रयं चेति चतुर्विध उत्कृष्टः । जिनकल्पिकानां तूपधेर्जघन्यमध्यमोत्कृष्टता यथासम्भवं स्थाप्या । आर्यिकाणां पुनरेवम्उक्कोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ । तह चउबिहो जहन्नो अजाणं पन्नवीसेवं' ।।
(नि०भा० १४१२, बृ०क० ४०९५, ओ०नि० ६७९) कप्पतिअ पडिग्गहगो अभिंतरबाहिरा निअंसणिआ संघाडिखंधकरणी उक्कोसो एस अट्ठविहो ।। पत्ताबंधो पडला रयहरणं मत्तकमढरयताणं । उग्गहपट्टो अद्धोरुचलणिकंचुअओ कच्छिवेकच्छी ।। इअ एस तेरसविहो मज्झिमओ तयणु चउविहु जहन्नो । गुच्छगपत्तठवणं मुहणंतयपायकेसरिआ' ।। कमढ' त्ति, साध्वीनामेकस्मिन् भाजने भोजनं न भवति किन्तु प्रत्येकं सर्वासां निजोदरमानं कमढकं भवति । अन्यथैकभाजनभोजने एकया गुरुकवलयोत्पाटनेऽन्यस्या अप्रीतिसम्भवः स्यादिति । इदानीमौपग्रहिकोपधिस्त्रिधा
१३