________________
जइ - जीयकप्पो पीठ निसिज्जा दंडगपमज्जणं घट्टडगलपिप्पलगा । सूई नहहरणी दंतकन्नसोहणदुग जहन्नो' ।।
(नि०भा० १४१३, बृ०क० ४०९६) पीठं काष्ठमयासनम्, निषीदन्त्वस्यामिति निषया पादप्रोञ्छनम् । दण्डकप्रमार्जनं येन वसतिः प्रमाय॑ते । घट्टका लिप्तपात्रघर्षणोपलाः । डगल' त्ति, लेष्टवो यैरपानं निर्लेप्यते । पिप्पलकः क्षुरप्रः, सूची यया सीव्यते, नखहरणी, दन्तशोधनं सिक्थाऽपनयनसिलाका कर्णशोधनं चेति जघन्यः । वासत्ताणाईओ मज्झिमगो वासत्ता(ता?)ण पंच इमे । वाले सुत्ते सूई कुडसीसगच्छत्तए चेव' ।। सहिअं दुन्नि अ ओहोवहिमि वाले अ सुत्तिए चेव । सेस तिअ वासताणा पणगं तह चिलमिणीण इमं' ।। वालमई सुत्तमई वागमई तहय दंडकडगमई । संथारगदुगमझुसिरझुसिपि य दंडपणगं च ।। दंडविदंडगलट्ठीविलट्ठि(ट्टी?) तह नालिया य पंचमिआ । अवलेहणि मत्ततिगं पासवणुच्चारखेले अ' ।। चिंचिणि अत्थुर पाउर तलिग अहवावि चम्मतिविहमिमं । केत्तीतलिगवन्भा पट्टगदुगं चेव होइ मिमं' ।। संथारुत्तरपट्टो अहवा सन्नाहपट्ट पल्हत्थी । मज्झो अज्जाणं पुण अइरित्तो वारगो होइ' ।। आसां व्याख्यालेशः- थाल' त्ति, वाला ऊर्णरूपास्तन्मयं कम्बलकमित्यर्थः । सुत्त' त्ति सूत्रमयम् । सूई तालपत्रसूच्यादि खुम्पकः । कुडसीसगं पलाशपत्रमयं खुम्पकम् । छत्रकं वंशमयम् । सेस तिअ वासताणा' और्णिकसौत्रिकादन्यद्वर्षास्पर्शनरक्षकं त्रयमौपग्रहिकम् । अझुसिरझुसिरं' अशुषिरः संस्तारको बहुकाष्ठफलकमयः उत्तरत्रैकाङ्गिकभणनात् । शुषिरः तृणादिमयः । दडेत्यादि । लट्ठी आयपमाणा विलट्ठि(ही?) चउरंगुलेण परिहीणा । दंडो बाहुपमाणो विदंडओ कक्खमित्तो उ' ।।
(ओ.नि. ७३१) सिरसो उवरिं चउरंगुलदीहा नालिआ होइ । अवलेहिणी वटोदुंबरप्लक्षाम्लिकाकाष्ठमयी यया पादयोः कर्दमोऽपनीयते । भणिअंच- बडउंबरे पिलक्खू तस्स अलाभम्मि चिंचिणिआ'। अत्थुर'त्ति, दावाग्न्यादिभये भूमावास्तीर्यत प्रलम्बादिविकरणाय च । पाउर' त्ति, षट्पदिकाभये यत् प्रावियते । तलिका उपानहः । सन्नाहपट्टो विहारे उपधेः शरीरेण सह बन्धनार्थः । पल्हत्थी योगपट्टः । वारओ' त्ति, ससागारिके साध्वीनां प्रस्रवणानन्तरमुदकस्पर्शनार्थं । नित्यं जनमध्य एव तासामुपाश्रयस्यानुज्ञातत्वात् । एष मध्यमौपग्रहिकः । अक्खा संथारो वा दुविहो एगंगिओ तदिअरो वा । बिइअपय पुत्थपणगं फलगं तह होइ उक्कोसो' ।।
(नि०भा० १४१६, बृ०क० ४०९९, व्य०सू० १२९ टीका) अक्खा अक्षा आचार्योपकरणम् । संस्तारको द्विविधः एकाङ्गिकः तिनिसकाष्ठरूपः, तदितरो दवरकावबद्धकम्बिकामयः । प्रथमपदमुत्सर्गः तदपेक्षया द्वितीयपदमपवादः । तत्र पुस्तकपञ्चकम् अग्रे वक्ष्यमाणस्वरूपम् । फलकं पट्टिका यस्यां लिखित्वा पठ्यते । एष उत्कृष्टौपग्रहिकः । अयं साधूनां साध्वीनां च त्रिविधोऽप्यौपग्रहिकः। एतस्य चौघिकौपग्रहिकोपधेस्त्रिविधस्यापि मध्यात् विच्चुअ' त्ति पदं सूत्रकारेणैव सह पाडिअलद्धे विहु ' इत्यनेन पदेन व्याख्यातम् । ततो विच्युतं नामाऽनाभोगेन पातितं ततः