________________
जइ - जीयकप्पो पुनर्लब्धं ततश्च जघन्ये उपधौ पातितलब्धे भिन्नमासः । मध्यमे पातितलब्धे लघुमासः । उत्कृष्टे पातितलब्धे गुरुमासः । तथा विस्मारितप्रेक्षितानिवेदने । प्रेक्षितं प्रतिलेखना । अयं भावः-प्रतिलेखनाया विस्मारणे विस्मार्यां प्रतिलेखनां गुरूणामनिवेदने च जघन्यस्य भिन्नमासः । मध्यमस्य लघुमासः । उत्कृष्टस्य गुरुमासः । सर्वस्मिँचोपधौ पातितलब्धे विस्मारितप्रतिलेखने 'न प्रतिलिखित' इति गुरूणामनिवेदिते च चतुर्लघु । इदं च मुखवस्त्रिकारजोहरणव्यतिरिक्तस्योपधेः प्रायश्चित्तं ज्ञेयम् । तयोः मुहणंतय'त्ति (मूलगाथा १९८) गाथायां प्रायश्चित्तस्य वक्ष्यमाणत्वात् ।। १९६।।
हारिअधोउग्गमिआनिवेअणादिन्नभोगदाणेसु ।
तिविहोवहिम्मि गुरु लहुग गुरुग सबम्मि छल्लहुगा ।।१९७।। व्याख्या-हारितधौतोद्गमितानिवेदनादत्तभोगदानेषु गुरुचतुर्लघुचतुर्गुरूणि भवन्ति । अयं भावः-हारिते नाशिते, धौते क्षालिते, उद्गमितानिवेदने उद्गम्योत्पाद्योपधिं गुरोरनिवेदिते, अदत्तभोगे गुर्वदत्तेऽपि परिभक्ते, अदत्तदाने गुर्वननुज्ञयाऽप्यन्यस्य दत्ते, त्रिविधोपधौ जघन्यमध्यमोत्कृष्टभेदे यथाक्रमं प्रायश्चित्तमिदं यथा-जघन्ये उपधौ गुरुमासः । मध्यमे चतुर्लघु । उत्कृष्टे चतुर्गुरु । सर्वस्मिंस्तूपधौ हारिते, वर्षारम्भकालेऽपि धौते, उत्पाद्य गुरोरनिवेदिते, गुर्वदत्तेऽपि परिभुक्ते, गुर्वननुज्ञयाऽप्यन्यस्य दत्ते षड्लघुकाः प्रायश्चित्तम् ।। १९७ तथा
. मुहणंतयरयहरणे फिडिअम्मि कमेण भिन्नचउगुरुगा।
नासिअ हारविए वा जीएणं गुरुग छल्लहुगा ।।१९८।। व्याख्या- फिडिय' त्ति । स्फिटण् पदभ्रंशे विकल्पे' मन्ताश्चरादय' इतीन्प्रत्ययाभावे कर्तरि निष्ठाप्रत्यये च स्फिटित इति रूपम् । अथ गाथार्थ:-चतुर्दिशमात्मप्रमाणं क्षेत्रमवग्रहः, तस्मादवग्रहात् स्फिटिते बहिर्भूते मुखानन्तके क्रमेण भिन्नमासः रजोहरणे चतुर्गुरुका इति जीतकल्पचूर्णौ । निशीथभाष्ये तु साधोः सकाशात् हस्तमात्रातिक्रमेऽपि रजोहरणस्योत्सङ्घट्टनोक्ता । परचक्रादिसम्पाते चकितत्वेन च नाशिते पातिते निजप्रमादेन वा हारिते मुखानन्तके जीतव्यवहारेण चतुर्गुरु । रजोहरणे षड्लघु ।। १९८।। अथ सामान्येनाऽप्रत्युपेक्षणाऽप्रमार्जनाविषयप्रायश्चित्तमाह
अप्पेहऽपमज्जणि चउभंगे तुरिए दुपेहदुपमज्जे ।
चउभंगी इअ सत्तसु तिसु लहु तिसु पण चरिम सुद्धो ।।१९९। व्याख्या-अप्रेक्षणं चक्षुषा, अप्रमार्जनं रजोहरणेन । तत्र चत्वारो भङ्गा भवन्ति । तद्यथा-दण्डकग्रहणे न प्रत्युपेक्षते न प्रमार्जयतीत्येको भङ्गः । न प्रत्युपेक्षते, प्रमार्जयतीति द्वितीयः । प्रत्युपेक्षते, न प्रमार्जयतीति तृतीयः । प्रत्युपेक्षते प्रमार्जयतीति चतुर्थः । तत्र तुर्ये चतुर्थे भने दुष्प्रेक्षणे दुष्प्रमार्जन चतुर्भङ्गी भवति । तथाहि-दुष्प्रत्युपेक्षते दुष्प्रमार्जयति, दुष्प्रत्युपेक्षते सुप्रमार्जयति, सुप्रत्युपेक्षते दुष्प्रमार्जयति, सुप्रत्युपेक्षते