________________
जइ - जीयकप्पो सुप्रमार्जयति । इत्येवं सप्त भङ्गा भवन्ति । एतेषु च सप्तभङ्गेषु मध्ये त्रिषु आयेषु भङ्गेषु लघुमासः, शेषेषु त्रिषु रात्रिंदिवपञ्चकं प्रायश्चित्तं भवति । चरमे सप्तमे भने शुद्धो विधिना प्रवृत्तेः । यथा दण्डकग्रहणे सप्त भङ्गा दर्शिताः । तथा दण्डकनिक्षेपेऽधस्तात् भूमेरुपरि च दण्डशिरः-सम्पर्कविषयभित्तिप्रदेशे अप्रेक्षणाऽप्रमार्जनाविषयाः सप्त भङ्गा वाच्याः । षट्सु प्रायश्चित्तं पूर्ववत् । सप्तमस्तु शुद्धः । एवं परेषामप्युपकरणानां ग्रहणे निक्षेपणे च सप्त भङ्गाः प्रायश्चित्तं च तथैव । तथा अविधिना खेलमल्लके निष्ठीवने दण्डक इव सप्त भङ्गा दण्डक इवैव चाद्येषु त्रिषु प्रत्येकं लघुमासः । उत्तरेषु त्रिषु प्रत्येकं रात्रिंदिवपञ्चकम्, सप्तमभङ्गवर्त्तिनस्त्वनिष्ठीवका एव विधिना निष्ठीवनात् । उपरितनेष्वपि च त्रिषु भङ्गेषु यदि भूमौ निष्ठीव्यति तदा मासलघु । यच्च निष्ठीवने प्राणिनां परितापनाद्युपजायते तन्निष्पन्नं च तस्य प्रायश्चित्तम् । एवमविधिना कण्डूयनेऽपि दण्डक इव सप्त भङ्गास्तथैव च प्रायश्चित्तविधिः । तथा वस्त्रादिकमातपात् छायायाम्, छायाया वा आतपे सङ्क्रामयन् न प्रत्युपेक्षते न प्रमार्जयतीत्यादयः पूर्ववत् सप्त भङ्गाः, पूर्ववदेव चायेषु षट्सु भङ्गेषु प्रायश्चित्तविधिः । सप्तमे तु भङ्गे शुद्धः । एवं मार्गे व्रजन अस्थण्डिलात् स्थण्डिले स्थण्डिलाद्वा अस्थण्डिले । तथा-कृष्णभूमात्प्रदेशान्नीलभूमौ नीलभूमेर्वा कृष्णभूमिप्रदेशे । एवं शेषवर्णेष्वपि प्रत्येकं योजनीयम् । तथा-अध्वनो ग्रामप्रवेशे ग्रामाद्वा अध्वनि सङ्क्रामन् पादौ न प्रत्युपेक्षते न प्रमार्जयतीत्यादयो दण्डक इव प्रत्येकं सप्त भङ्गा दण्डक इवैव च षट्सु भङ्गेषु प्रायश्चित्तम्, सप्तमे तु शुद्धः। एवमन्यत्राप्यप्रतिलेखनाऽप्रमार्जनाविषयं प्रायश्चित्तमवगन्तव्यम् ।।१९९।। एवं वस्त्रविषयं प्रायश्चित्तमभिधाय पात्रविषयं प्रायश्चित्तमभिधातुकामस्त्रिविधपात्रोत्क्रमग्रहणप्रायश्चित्तमाह
तुंबयदारुअमट्टिअपायं उक्कोस मज्झिम जहन्नं ।
उप्परिवाडीगहणे चाउम्मासा भवे लहुगा ।।२००।। व्याख्या-पात्रं त्रिविधं-तुम्बकमयं दारुमयं मृत्तिकामयम् । एकैकं त्रिविधम्-उत्कृष्टं मध्यमं जघन्यम् । उत्कृष्टं पतद्ग्रहो, मध्यमं मात्रकम्, जघन्यं टोप्परिकादि । एकैकं पुनस्त्रिधा-यथाकृतम् अल्पपरिकर्म बहुपरिकर्म च । तत्र यथाकृतं यत् पूर्वमेव कृतमुखं कृतलेपं तादृशं कुत्रिकापणे लभ्यते, निह्नवो वा प्रतिमाप्रतिनिवृत्तः श्रमणोपासको वा तादृशं ददाति । अर्धाङ्गुलं यावद्यच्छेद्यं स्यात्तदल्पपरिकर्म । यदर्भालात् परतश्छेद्यं भवति तत् बहुपरिकर्म । एतेषां पात्राणामुत्परिपाट्या विपर्यासेन ग्रहणे चत्वारो मासा लघुका भवन्ति । उपलक्षणत्वाल्लधुमास-रात्रिंदिवपञ्चके अपि । इदमुक्तं भवति-उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योगं त्रिःपर्यटनरूपमकृत्वाऽल्पपरिकर्मोत्कृष्टमेव गृह्णाति चतुर्लघु । सपरिकर्म वा प्रथमत एव गृह्णाति चतुर्लघु । यदा यथाकृतम्, योगे कृतेऽपि न लभ्यते तदा अल्पपरिकर्म गवेषणीयम् । तस्योत्पादनाय निर्गतः प्रथमत एव सपरिकर्म गृह्णाति चतुर्लघु । इति त्रीणि चतुर्लघुकानि । एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि, जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिंदिवपञ्चकानि । यथा यथाकृतादिविपर्यस्तग्रहणे प्रायश्चित्तं A. बहुपरिकर्म ।