________________
जइ - जीयकप्पो तथोत्कृष्टादीनामपि परस्परं विपर्यस्तग्रहणे प्रायश्चित्तम् । तद्यथा-उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यम मात्रकं गृह्णाति मासिकम् । जघन्यं टोपरिकादि गृह्णाति पञ्चकम् । मध्यमस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु । जघन्यं गृह्णाति पञ्चकम् । जघन्यस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु । मध्यमं गृह्णाति मासिकम् ।।२०० ।। अथ मूलोत्तरगुणदुष्टपात्रग्रहणप्रायश्चित्तमाह
मुहकरणं मूलगुणा निक्कोरणमुत्तरे गुरुग मूले ।
उत्तरगुणि लहुग अकोरिए अ झुसिरत्तिऽबीए वि ।।२०१।। व्याख्या-पात्रस्य यन्मुखकरणं तन्मूलगुणाः । यत् पुनर्मुखकरणानन्तरं तदभ्यन्तरवर्तिनो गिरस्योत्कीरणं तन्निक्कोरणमित्यभिधीयते तदुत्तरगुणाः । तत्र मूले मूलगुणदुष्टे पात्रे गृहीते गुरुकाश्चत्वारो भवन्ति । उत्तरगुणे उत्तरगुणदुष्टे पुनर्लघुकाश्चत्वारो भवन्ति । इदमुक्तं भवति-अत्र चतुर्भङ्गी-संयतार्थं कृतमुखं संयतार्थमवोत्कीर्णमिति प्रथमो भङ्गः । संयतार्थं कृतमुखं स्वार्थमुत्कीर्णमिति द्वितीयः । स्वार्थं कृतमुखं संयतार्थमुत्कीर्णमिति तृतीयः। स्वार्थं कृतमुखं स्वार्थमेवोत्कीर्णमिति चतुर्थः । अत्र त्रिषु भङ्गेषु प्रायश्चित्तम् । तद्यथा-प्रथमे भङ्गे चत्वारो गुरुकाः तपसा कालेन च गुरवः । द्वितीयेऽपि चतुर्गुरुकाः तपसा गुरवः कालेन लघवः । तृतीये चतुर्लघुकाः कालेन गुरवस्तपसा लघवः । चतुर्थे भने शुद्धः । उभयस्यापि स्वार्थत्वात् । तथा अकोरितेऽनुत्कीर्णे भाजने अबीजेऽपि बीजविरहितेऽपि गृहीते चतुर्लघुका भवन्ति । शुषिरमितिकृत्वा, शुषिरं हि दुर्निरीक्षत्वेन दुष्प्रतिलेख्यं भवति ।।२०१।। अथ दग्धत्वादिदोषदूषितपात्रकग्रहणप्रायश्चित्तमाह
अंतो बहिं च दद्धे पुष्फगभिन्ने अचउगुरू हूंति ।
अन्नह भिन्ने लहुगा हुडाइसु सत्तसु वि लहुगो ।।२०२।। व्याख्या-इह साधुना एवंविधलक्षणयुक्तं पात्रकं धारणीयं न तु निर्लक्षणम् । यदुक्तम्वटुं समचउरंसं होइ थिरं थावरं च वन्नटुं । हुंडं वायाइद्धं भिन्नं च अधारणिज्जाई' ।।
(बृ०क० ४०२२,नि०भा० ५८४६, ओ०नि० ६८७) वृत्तं वर्तु तदपि समचतुरस्रम् उच्छ्रयेण पृथुत्वेन च तुल्यम् , स्थिरं सुप्रतिष्ठानं दृढं वा, स्थावरमप्रातिहारिकम् , वर्णाढ्यं स्निग्धवर्णोपतम् । एवंविधं लक्षणयुक्तं पात्रं धार्यम् । तथा हुण्डं विषमसंस्थितं यत् समचतुरस्रं न भवति । वाताविद्धं यन्निष्पत्तिकालमन्तरेणाऽगिपि शुष्कम् । आतपसङ्कुचितं वलिभूतं च सातम् । भिन्नं नाम सछिद्रं राजियुक्तं च । एवं शबलं विचित्रवर्णम् । दुष्पुतं पुष्पकमूलेन प्रतिष्ठितं यत् स्थाप्यमानमूर्ध्वं तिष्ठति, वालितं पुनः प्रलुठति । कीलकसंस्थानं कूपराकारं कीलकवद्दीर्घम् । पद्मोत्पलम् अधः पद्मोत्पलाकारपुष्पकयुक्तम् । सव्रणं क्षतसहितं दग्धम् अग्निना ध्यामितम् । एतान्युपलक्षणतया अधारणीयानि। यतः सलक्षणनिर्लक्षणपात्रकयोरिमे गुणदोषाः ।