________________
जइ - जीयकप्पो संठिअम्मि भवे लाभो पइट्ठा सुपइट्टिए । निव्वणे कित्तिमारुग्गं वन्नड्डे नाणसंपया ।। हुडे चरित्तभेओ सबलम्मि अ चित्तविन्भमं जाण । दुप्पुए खीलसंठाणे नत्थि ठाणं ति निदिसे' ।।
(बृ०क० ४०२३-४०२४,नि०भा० ५८४७-५८४८, ओ०नि० ६८८-६८९) गणे चरणे च स्थानं नास्ति । पउमुप्पले अ कुसलं सवणे वणमाइसे । अंतो बहिं च दढे मरणं तत्थ निदिसे' ।।
(बृ०क०४०२५,नि०भा०५८४९, ओ०नि०६९०) अतो दग्धत्वादिदूषिते पात्रके धार्यमाणे प्रायश्चित्तम् , तद्यथा- अन्तर्मध्ये बहिश्चोपरिष्टात् दग्धे पात्रे पुष्पकभिन्ने च पुष्पकं पात्रकस्य नाभिस्तत्र यद्भिन्न तस्मिन् पात्रके धार्यमाणे चत्वारो गुरुका भवन्ति । अन्यत्र पुष्पकाद्व्यतिरिक्तेषु कुक्ष्यादिस्थानेषु भिन्ने पुनः पात्रके चतुर्लघुकाः । हुण्डादिषु सप्तस्वपि-हुण्डे, वाताविद्धे, दुष्पुते, कीलकसंस्थाने, शबले, सवणे, अवर्णाढ्ये चेत्यर्थः । पात्रकेषु धार्यमाणेषु लघुको मासो भवति। तथा पात्रं प्रमाणोपेतं धार्य हीनाधिकप्रमाणे पात्रे चतुर्लघुका भवन्ति । पात्रकप्रमाणं चेदम्तिन्नि विहत्थि चउरंगुलं च भायणस्स मज्झिमपमाणं । इत्तो हीण जहन्नं अतिरेययरं तु उक्कोसं' ।।
(बृ०क० ४०१३, नि०भा० ५८३७, ओ०नि० ६८१) इदं पात्रकपरिधिप्रमाणम् । अथवाउक्कोस तिसमासे दुगाउअद्धाणमागओ साहू । चउरंगुलवज् भत्तपाणपज्जत्तयं हिट्ठा' ।।
(बृ०क० ४०१४, नि०भा० ५८३८, ओ०नि० ६८३) मात्रकप्रमाणं पुनरिदंसुक्कोदणस्स भरिअं दुगाउ अद्धाणमागओ साहू । भुंजइ एगट्ठाणे एअं खलु मत्तगपमाणं ।।
(पंचव० ८१९, बृ०क० ४०६८) भत्तस्स व पाणस्स व एगतरागस्स जो भवे भरिओ । पज्जत्तो साहुस्स उ बिइअंपि अ मत्तगपमाणं'।।
(ओ०नि० ७१५, बृ०क० ४०६९) ।।२०२।। अथ पात्रकपरिकर्मणप्रायश्चित्तमाह
कारणविहिपरिकम्मे चउभंगो पढम सुद्ध तिसु लहुगो ।
तवकालेहिं विसिट्ठो तवकालगुरु चरिमभंगो ।।२०३।। व्याख्या-पात्रकस्य कारणे सति विधिना सूत्रोक्तेन परिकर्मणं बन्धनलेपनादिकं विधेयम् । अत्र चतुर्भङ्गी । कारणे विधिना परिकर्मणमित्येको भङ्गः । कारणे अविधिनेति द्वितीयः । निष्कारणे विधिना तृतीयः । निष्कारणे अविधिनेति चतुर्थः । अत्र प्रथमो भङ्गो विशुद्धोऽनुज्ञातत्वात् । शेषेषु त्रिषु भङ्गेषु लघुको मासः तपःकालाभ्यां विशिष्टो भवति । तत्र द्वितीयभङ्गे कालगुरुः, तृतीये तपोगुरुः । चरमः चतुर्थो भङ्गस्तपःकालगुरुः। तपःकालाभ्यां गुरुर्लघुमासश्चतुर्थे भवतीत्यर्थः ।।२०३।।। A. उत्कृष्टस्तृड्मासः स उच्यते यस्मिन् अतीवप्रबला पिपासा समुल्लसति स च ज्येष्ठः अषाढो वा ।