________________
जइ - जीयकप्पो अथ शोभादिनिमित्तपात्रकलेपदानप्रायश्चित्तमाह
संजमहेउं लेवो न विभूसा गारवेण वा देओ। चउगुरुग विभूसाए लिंपते गारवेणं वा ।।२०४।।
(बृ०क०५२७) व्याख्या-लेपः पात्रस्य दातव्यः संयमहेतोर्न विभूषया न वा गारवेण । संयमहेतोः पुनर्दीयमाने लेपे यदि विभूषा भवति तथापि संयमहेतोरेव । अत्र सत्या असत्या च दृष्टान्तः । तथाहि-सत्यपि आत्मानं विभूषयति असत्यपि, केवलं सती कुलाचारनिमित्तमात्मानं विभूषयतीति तुल्यमपि तद्विभूषणमदुष्टम् इतरा जारतोषणनिमित्तमिति दोषवत् । एवं यथा सत्यसत्यौ तथा साधू । यथा विभूषणं तथा लेपः । यथा कुलाचारः तथा संयमः । यथा जारतोषणं तथा असंयमः । विभूषया गारवेण वा लिम्पतो लेपं ददतः प्रायश्चित्तं चतुर्गुरुकाः । तथा रात्रौ लेपं गृहीत्वा रात्रावेव च भाजने ददाति । अत्र प्रायश्चित्तं चतुर्लघुकास्तपःकालगुरुकाः, रात्रौ लेपं गृहीत्वा दिवा ददाति चतुर्लघुकास्तपोगुरवः, दिवा लेपं गृहीत्वा रात्रौ ददाति चतुर्लघुकाः कालगुरवः, दिवा गृहीत्वा दिवैव ददाति तदा शुद्धः । इति पात्रविषयं प्रायश्चित्तमभिहितम् ।।२०४।। एवमुत्तरगुणप्रायश्चित्ताधिकारे पिण्डशय्यावस्त्रपात्रविषयप्रायश्चित्तप्रतिपादनेनाऽकल्पविषयप्रायश्चित्तमुक्त्वा गृहिमात्रादिविषयं प्रायश्चित्तमभिधित्सुराह
गिहिमत्ते पलिअके लहुगा पडिहारिवत्थमाइगहे ।
चउगुरुग रायपिडे तहित्थिकहगिहनिसिज्जासु ।।२०५।। व्याख्या-गृहिणां गृहस्थानां मात्रं भाजनं मणिसुवर्णरजतताम्रकांस्यलोहदारुमृदादिमयम् , तस्मिन् योऽशनादि भुङ्क्ते तस्य चतुर्लघुकाः । आज्ञाभङ्गादयश्च दोषाः । तथा गृहिभाजनभोजने पुरःकर्मपश्चात्कर्मादिभिः षट्कायविराधना । तथा पर्यङ्के पल्यथे, उपलक्षणत्वात् आसन्दीमञ्चकाशालकेषु शयनासने कुर्वतः चतुर्लघु आज्ञादयश्च दोषाः । तथा प्रातिहारिकवस्त्रादिग्रहे प्रातिहारिकं गृहस्थसत्तास्थमेव कियत्कालव्यापारणाय गृहीतं वस्त्रादि, आदिशब्दात् कम्बलादि तस्य व्यापारणे चतुर्लघुकाः । आज्ञादयश्च दोषाः । साधुव्यापारेण मलिने च धावनादयो दोषाः । तथा राजपिण्डे यो मूर्द्धाभिषिक्तः सेनापत्यमात्यपुरोहितश्रेष्ठिसार्थवाहसहितो राज्यं भुङ्क्ते स राजा तस्य पिण्डोऽशनादिरष्टविधः । यदुक्तम्असणाइआ चउरो वत्थे पाए अ कंबले चेव । पाउंछणए अ तहा अट्टविहो रायपिंडो अ' ।।
(बृ०क० ६३८४, नि०भा० २५००) तस्मिन् राजपिण्डे गृह्यमाणे गुरुकाश्चत्वारः । तथा स्त्रीणां पुरतस्त्रीणि चत्वारि पञ्च वा व्याकरणानि कारणेऽनुज्ञातानि, ततः परं तु षष्ठादिव्याकरणरूपामपरिमितां कथां कथयतश्चतुर्गुरुकाः । आज्ञादयश्च दोषाः