________________
जइ - जीयकप्पो शङ्कादिदोषाश्च । द्वितीयपदेन तथाविधकारणे स्त्रीणामग्रेऽपि धर्मकथां कथयेत् । तत्र तासु दृष्टिमबध्नन् वृद्धासु वा दृष्टिं बध्नन् वैराग्यकथां कथयतीति विधिः । तथा गृहनिषद्यायां चतुर्गुरुकाः । गोचरचर्यादिगतो गृहिणां गृहे निषदनं कुर्वतश्चतुर्गुरुका भवन्तीत्यर्थः । आज्ञाभङ्गादयश्च दोषाः। जराभिभूतादेस्तु गृहे निषीदतो न दोषः ।।२०५।। तथा साधूनां स्नानं न कल्पते । तत् करणे प्रायश्चित्तं प्रतिपिपादयिषुराह
आइन्न जयण कारण देसे ण्हाणमि भंग सोलसगं ।
जत्थाऽऽइन्नं सब्बे कारणि नाइन्न ते सुन्ना ।।२०६।। व्याख्या-इह स्नानं द्विधा-देशस्नानं सर्वस्नानं च । तत्र मुखनयनचलनदन्तकक्षाबाहुप्रभृतिशरीरावयवधावनं देशस्नानं, सर्वाङ्गप्रक्षालनं सर्वस्नानम् । तत्र देशस्नानं द्विधा-आचीर्णम् अनाचीर्णं च । आचीर्णं यत् साधुभिराचर्यते। अनाचीर्णं तद्विपरीतम् । आचीर्णमपि द्विविधं-कारणे निष्कारणे च । यत्कारणे तदपि द्विधा-भक्तामर्षे लेपे च । तत्र भक्तामर्षेऽशनादिना लेपकृता द्रव्येण हस्तौ लिप्तौ ततस्तौ मणिबन्धं यावद् धाव्येते यत् । लेपे पुनरिदम्-अस्वाध्यायिकमूत्रपुरीषादिना यावन्मात्रः शरीरावयवश्चलनादिः खरण्टितस्तावन्मात्रः स धाव्यते यत् । एतत्कारणतः । निष्कारणे पुनस्तद्विपरीतम् । भक्तामर्षे लेपे च यत् स्नानं तदाचीर्णम्, शेषं देशस्नानं सर्वस्नानं वा सर्वमनाचीर्णम् । एतत्सर्वमपि स्नानं यतनयाऽयतनया वा स्यात् । तत्र त्रिप्रसृतिप्रमाणप्रासुकपानीयेन यत्स्नानं क्रियते तत् यतनया, तदधिकेन पुनरयतनया । ततः स्नाने आचीर्णयतना-कारण-देशानामतेषां चतुर्णां पदानां सप्रतिपक्षाणां षोडश भङ्गा भवन्ति । ते च प्रस्तारतो यथा-एतेषु च
का षोडशभङ्गेषु ये भङ्गा अत्र न घटन्ते तानुत्तरार्द्धनोपदर्शयति । यथा
| यत्र भङ्गे आचीर्णग्रहणं दृश्यते तत्रैव यदि सर्वग्रहणं दृश्यते ततः पूर्वापरविरोधान्न घटतेऽसौ भङ्गः । यत्र च कारणग्रहणमनाचीर्णग्रहणं
च दृश्यतेऽसावपि न घटते, ततस्ते भङ्गाः सर्वेऽपि शून्या 1555
ज्ञातव्याः। शेषभङ्गा अत्र ग्राह्यास्तेषु प्रथमे भङ्गे शुद्धः । शेषेषु प्रायश्चित्तम् ।।२०६।। एतदेवाह
सेसे पढम ति इगदस बारस पण सत्त पनरस सोलसमे ।
सुद्धो लहु३ लहु११ लहुगा१२ तिसु५।७।१५ लहुगो चउलहु१६ कमेण ।।२०७।। व्याख्या-ये भङ्गाः शून्यास्तान वर्जयित्वा ये शेषा भङ्गा भवन्ति । तेषु यः प्रथमो भङ्ग आचीर्णो यतनया कारणे देशस्नानमित्येवंरूपस्तस्मिन् भने शुद्धः । ततस्तृतीयादिषु भङ्गेषु लघुकादि प्रायश्चित्तं क्रमेण ज्ञातव्यम्,
।5।।
5।।।
।।15
ISIS
SIIS
5515
।।5।
155।
SIS
SSSI
TISS
SI55
5555