________________
इजीको
तद्यथा
- तृतीये लघुकः । एकादशे लघुकः । द्वादशे चतुर्लघुकाः । पञ्चमे सप्तमे पञ्चदशे च भङ्गे लघुको मासः । षोडशे भङ्गे पुनश्चतुर्लघुकाः । आज्ञाऽनवस्थामिथ्यात्वविराधनाश्च भवन्ति । इमे च दोषाः स्नाने षड्जीवनिकायविराधना । स्नानप्रतिबन्धः । अस्नानसाधुशरीरेभ्यो निर्मलशरीरोऽहमिति गारव विभूषा । अस्नानपरीषहाऽजयः । लोकस्याविश्रम्भः । उक्तं च
छक्कायाण विराहण तप्पडिबंधो अ गारव विभूषा । परिसहभीरुत्तंपि अ अविसासो चेव ण्हाणंमि' ।। द्वितीयपदे ग्लानस्याध्वश्रान्तस्य वा देशस्नानं सर्वस्नानं वा न दुष्टम् । वादिनो वादपर्षदं गच्छतः पादादि - देशस्नानं सर्वस्नानं वा आचार्यस्याऽतिशय इति कृत्वा देशस्नानं सर्वस्नानं वाऽनुज्ञातम् ।। २०७ ।। अथ कालातीतादिभक्तादिप्रायश्चित्तमाह—
भिन्नं कालद्धाणाइत्थिअकरणंमि गुरुग परिभोगे । अविहिविगिंचिणिआए भत्ताईणं तु लहुमासो ।। २०८ ।।
व्याख्या–विकथादिप्रमादेन विस्मृत्या भक्तादेः कालाध्वातिक्रान्तकरणे कालातीते अध्वातीते वा भक्ते पाने वा कृते भिन्नमासः । कालाध्वातीतस्य भक्तादेः परिभोगे चतुर्गुरुकाः । कालाध्वातीतानामशुद्धगृहीतानामधिकीभूतानां वा भक्तादीनामन्येषां वा परिष्ठापनीयानां प्रस्रवणादीनामविधिविवेचनायामशुद्धस्थण्डिलादौ परित्यागे पुनर्लघुमासः ।। २०८ ।। अथवा—
संसट्टा सट्टे निद्धे चउगुरुग लुक्खसंसट्टे ।
गुरुगो इअरे लहुगो भत्ते संपइ अविहिचाए । । २०९।।
व्याख्या - संसृष्टे असंसृष्टे वा स्निग्धे भक्ते अविधिना परिष्ठापिते चतुर्गुरुकाः । रूक्षसंसृष्टे गुरुको मासः । इतरस्मिन् रूक्षासंसृष्टे भक्ते अविधिना त्यक्ते लघुको मासः । सम्प्रति इदानीं सामाचार्यागतमिदं प्रायश्चित्तमविधिपरिष्ठापनेऽवगन्तव्यम् । आगमे च परिष्ठापनेऽयं विधिः - मूलगुणाशुद्धे भक्ते परिष्ठाप्यमाने एकः पुञ्जः, उत्तरगुणाशुद्धे लोभातिरेकगृहीते च द्वौ पुञ्ज । आचार्यग्लानप्राघुर्णकदुर्लभत्वसहसालाभहेतुकगृहीतेऽधिकीभूते शुद्धे भक्ते त्रयः पुञ्ज वीथ्यादिनिर्गतानां साधूनां शुद्धाशुद्धपरिज्ञानार्थं क्रियन्ते । दुष्टविद्यामन्त्रचूर्णविषकृतं तु भक्तं भस्माक्रान्तं कृत्वा परिष्ठाप्यते । साम्प्रतं तु सर्वं परिष्ठाप्यं प्रायो भस्माक्रान्तं कृत्वा परिष्ठाप्यते ।। २०९ ।। तथा—
चहु भागे पाए चउगुरु किमिपाय संखडे वमणे ।
लहुगो इरिओवओगाकरणे सज्झाय गुरुगो अ ।। २१०।। व्याख्या–प्रमादादिना हस्तपातनादितः पात्रे भग्ने चतुर्लघु । कृमिपातः, कृमयो व्रणापानकुक्षिसमुद्भवा जन्तवस्तेषां पातः पातनं निष्कासनं स चतुर्धा - निष्कारणे अविधिना, निष्कारणे विधिना, कारणे अविधिना, कारणे विधिना ।