________________
जइ - जीयकप्पो काष्ठादिभिरविधिः । अङ्गुल्यादिभिस्तु विधिः । अत्र चतुर्थे भने शुद्धो विधिना प्रवृत्तत्वात् । शेषेषु त्रिषु प्रायश्चित्तं चतुर्गुरु । निशीथे तु आद्यभङ्गद्धये चतुर्लघु । तृतीये लघुमासः । उत्सर्गेण विधिना अविधिना वा न ते निष्कास्या यतस्तेषु विराध्यमानेषु संयमविराधना, क्षते त्वात्मविराधना ततोऽधिसोढव्यम् । यदुक्तं निशीथचूर्णी- सीस आह-वेअणट्टेण किं कायव्वं ?' आयरिअ आहमच्चुप्पइअं दुक्खं अभिभूओ वेअणाए तिव्वाए । अद्दीणो अबहिओ दुक्खं अहिआसए सम्म' ।।
(नि०भा० १५०३) नच्चत्ति ज्ञात्वा, किं ज्ञात्वा ? दुःक्खमुत्पन्नम्, वेद्यते इति वेदना तिवाए वेअणाए सव्वं सरीरं व्याप्त' मित्यर्थः । न दीणो अदीणो पसण्णमणो स्वभावस्थ इत्यर्थः । न वा ओहयमणसंकप्पे । अथवा हा माते ! हा पिते ! एवमादि न भासए जो सो अदीणो, न वेअणट्टो अप्पणो सिरोरुकुट्टणादि करेति । अथवा न वेअणट्टो चिंतेइ अप्पाणं मारेमित्ति । तं दुक्खमुणन्नं सम्मं अहिआसेअवं इत्यर्थः । कारणे पुण नीहरणं करिज्ज । अबुच्छित्तिनिमित्तं जीविअट्ठी समाहिहेउं वा । गंडादीसुं किमिए जयणाए नीहरे भिक्खू' ।
___ (नि०भा० १५१३) 'सुत्तत्थाणं अबुच्छित्तिं करिस्सामि' त्ति । जीवितही वा जीवंतो संजमं करिस्सामि, चउत्थाइणा वा तवेणं अप्पाणं भाविस्सामि, नाण-दसण-चरित्तसमाहिसाहणट्ठा वा अथवा समाहिमरणेण वा मरिस्सामि त्ति । किमिए जयणाए नीहरिज । जयणा जहा जीवोवघाओ न भवतीत्यर्थः । तथा संखडे सङ्घड्यां चतुर्गुरु । इदमुक्तं भवति-सङ्खडी द्विविधा-आचीर्णा अनाचीर्णा च । साधूनां कल्पनीया आचीर्णा, इतरा अनाचीर्णा। तत्रैता अनाचीर्णाःआवंतिआ पगणिआ सखित्त अखित्त बाहिराइण्णा । अविसुद्धा पंथ गमणा सपच्चवाया सभेआ य' ।।
(नि०भा० १७७२, बृ०क० ३१८४) तटिककार्पटिकादीनां सर्वेषां यस्यां दीयते सा यावन्तिका । यस्यां पुनः पाखण्डिनामेव दश सरजस्कानां दश शाक्यानां दश परिव्राजकानां दश श्वेतपटानामेवं गणितानां दीयते सा प्रगणिता । स्वक्षेत्रे या सक्रोशयोजनाभ्यन्तरे, अक्षेत्रे या सचित्तपृथिव्यां सचित्तवनस्पतिकायादिषु या स्थिता । बाह्या या सक्रोशयोजनप्रमाणक्षेत्रावग्रहाद् बहिः । आकीर्णा चरकपरिव्राजकसरजस्कादिभिस्तटिककार्पटिकादिभिश्च या आकुला । यस्या मार्गः पृथिव्यब्बनपतित्रसैः संसक्तो भवति साऽविशुद्धपथा । सिंहादिश्वापदस्तेनादिप्रत्यपायसहिता सप्रत्यपाया । यस्यां विषकुटिलप्रयोगेण जीवितचरित्रभेदो भवति सा सभेदा । एताः सर्वा अपि सङ्घड्योऽनाचीर्णाः । यावन्तिकादिदोषविप्रमुक्ता आचीर्णाः । अनाचीर्णासु च नवसु सङ्खडीषु गच्छतः प्रायश्चित्तम् , तद्यथायावन्तिकायां चतुर्लघु । प्रगणितायां चतुर्गुरु । स्वक्षेत्रसङ्घड्यां चतुर्लघु । अक्षेत्रसवड्यां कायप्रायश्चित्तम् । बाह्यायामर्द्धयोजनार्द्धयोजनवृद्धौ चतुर्लघु-चतुर्गुरुप्रभृति । आकीर्णायां चतुर्गुरु । अविशुद्धपथायां कायप्रायश्चित्तमेव ।