________________
जइ - जीयकप्पो पुनरेकादित्रिपर्यन्तकार्षापणमूल्ये लघुमासः, चतुराद्यष्टादशपर्यन्तकार्षापणमूल्ये गुरुमासः । अग्रतो मूल्यवृद्धौ प्रायश्चित्तवृद्धिर्वस्त्रवत् पात्रेऽप्यवसेया। कृत्स्नवस्त्रबहुमूल्यपात्रग्रहणे च चौराद्यनर्थः । इत्थ दिटुंतो-एगो राया आयरिआण उवसमइ (एगेण आयरियेणं धम्मकहालद्धिसंपन्नेणं राया उवसामिओ) सो सवं गच्छं कंबलरयणेहिं पडिलाभिउं उवट्ठिओ । आयरिएहि निसिद्धो-न वट्टइत्ति । अतिनिबंधा एगं गहिअं । भणाति-पाउएणं हट्टमग्गेणं गच्छह तहा कयं । तेणगेण दिट्ठा । रातिं आगंतुं तेणगेणं भणिअं-जइ न देह वत्थं रायदिण्णं तो भे सिरच्छेअं करेमि । आयरिएहिं भणिअं-खंडिअं दंसेह, दंसि । रुट्टो भणेति-सिबिउं देह अन्नहा भे मारेमि । तं च सिबिउं दिण्णं । एवमनेकदोषाः स्वयं ज्ञेयाः । तथा वस्त्रं साधुभिः साधूचितव्यापारविधिना व्यापार्यं न तु शीर्षावरणाद्यविधिना । यदुक्तम्भिक्खविआरविहारे दुइज्जतो व गाममणुगामं । सीसदुवारं भिक्खू जो कुज्जा आणमाइणि' ।।
(नि०भा० १५२४) शीर्षावरणे चोपकरणभोगविपर्यासः, विपर्यासभोगे चेमे प्रकाराः प्रायश्चित्तं च । खंधे दुवारसंजइगरुलद्धंसो अ पट्टलिंगदुगे । लहुगो लहुगो लहुगा तिसु चउगुरु दोसमूलं तु' ।।
__(नि०भा० १५२५) चतुष्फलं मुत्कलं वा वस्त्रं स्कन्धे करोति । दुवार' इति सीसवारिआ शीर्षावरणं करोति द्वे अपि बाहे छादयन् संयतीप्रावरणेन प्रावृणोति । एकत उभयतो वा स्कन्धारोपितकल्पाश्चलकरणेन गरुडपक्षं प्रावृणोति । अर्धांस उत्तरासङ्गः, षट्ट' इति चोलपट्टे बध्नाति । लिङ्गद्विकं गृहलिङ्गमन्यतीर्थिकलिङ्ग वा करोति । एतेष्वष्टसु विपर्यासोपकरणभोगप्रकारेषु यथासङ्ख्यं पश्चार्दोक्तं प्रायश्चित्तमवसेयम् । शीर्षावरणे च त्रिधा छत्रकं भवति । उक्तं चघउफलपुत्ती सीसे बहुपावरणाउ बिइअगं छत्तं । हत्थुक्खित्तं वत्थं तइअं छत्तं च पिच्छाइ' ।।
(नि०भा० १५२७) चतुष्फलं कल्पं शिरसि करोति, वधूप्रावरणं नाम अङ्गुष्टिं करोति । एतद्वितीयं छत्रकम् । हस्तोत्क्षिप्तं दण्डके वा कृत्वा धरति इदं तृतीयं छत्रकम् । अथवा द्वे पूर्वोक्ते, तृतीयं पिच्छादि छत्रकं धरति । कारणे पुनः शीर्षावरणं कुर्यात् । उक्तं चबिइअपदं गेलन्ने असहू सागारसेहमाईसु अद्धाणतेणएसु अ संजयपंतेसु जयणाए' ।।
(नि०भा० १५२८) ग्लान उष्णं न सहते कर्णा वा तस्य वातेन भियन्ते । राजादिर्दीक्षितो वा असहो धारयति । शैक्षस्य वा सागारिकमिति कृत्वा अङ्गुष्टिं करोति । आदिशब्दादशैक्षोऽपि प्रत्यनीकादन्यस्माद्वा शङ्कमानो जात्यादिजुङ्गितो वा करोति । अध्वनि वा उष्णं न सहते, तृषितो वा संयतप्रान्तेषु वा स्तेनेष्वङ्गुष्टिं करोति । जयणाए' त्ति ।