Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 143
________________ जइ - जीयकप्पो अथ शोभादिनिमित्तपात्रकलेपदानप्रायश्चित्तमाह संजमहेउं लेवो न विभूसा गारवेण वा देओ। चउगुरुग विभूसाए लिंपते गारवेणं वा ।।२०४।। (बृ०क०५२७) व्याख्या-लेपः पात्रस्य दातव्यः संयमहेतोर्न विभूषया न वा गारवेण । संयमहेतोः पुनर्दीयमाने लेपे यदि विभूषा भवति तथापि संयमहेतोरेव । अत्र सत्या असत्या च दृष्टान्तः । तथाहि-सत्यपि आत्मानं विभूषयति असत्यपि, केवलं सती कुलाचारनिमित्तमात्मानं विभूषयतीति तुल्यमपि तद्विभूषणमदुष्टम् इतरा जारतोषणनिमित्तमिति दोषवत् । एवं यथा सत्यसत्यौ तथा साधू । यथा विभूषणं तथा लेपः । यथा कुलाचारः तथा संयमः । यथा जारतोषणं तथा असंयमः । विभूषया गारवेण वा लिम्पतो लेपं ददतः प्रायश्चित्तं चतुर्गुरुकाः । तथा रात्रौ लेपं गृहीत्वा रात्रावेव च भाजने ददाति । अत्र प्रायश्चित्तं चतुर्लघुकास्तपःकालगुरुकाः, रात्रौ लेपं गृहीत्वा दिवा ददाति चतुर्लघुकास्तपोगुरवः, दिवा लेपं गृहीत्वा रात्रौ ददाति चतुर्लघुकाः कालगुरवः, दिवा गृहीत्वा दिवैव ददाति तदा शुद्धः । इति पात्रविषयं प्रायश्चित्तमभिहितम् ।।२०४।। एवमुत्तरगुणप्रायश्चित्ताधिकारे पिण्डशय्यावस्त्रपात्रविषयप्रायश्चित्तप्रतिपादनेनाऽकल्पविषयप्रायश्चित्तमुक्त्वा गृहिमात्रादिविषयं प्रायश्चित्तमभिधित्सुराह गिहिमत्ते पलिअके लहुगा पडिहारिवत्थमाइगहे । चउगुरुग रायपिडे तहित्थिकहगिहनिसिज्जासु ।।२०५।। व्याख्या-गृहिणां गृहस्थानां मात्रं भाजनं मणिसुवर्णरजतताम्रकांस्यलोहदारुमृदादिमयम् , तस्मिन् योऽशनादि भुङ्क्ते तस्य चतुर्लघुकाः । आज्ञाभङ्गादयश्च दोषाः । तथा गृहिभाजनभोजने पुरःकर्मपश्चात्कर्मादिभिः षट्कायविराधना । तथा पर्यङ्के पल्यथे, उपलक्षणत्वात् आसन्दीमञ्चकाशालकेषु शयनासने कुर्वतः चतुर्लघु आज्ञादयश्च दोषाः । तथा प्रातिहारिकवस्त्रादिग्रहे प्रातिहारिकं गृहस्थसत्तास्थमेव कियत्कालव्यापारणाय गृहीतं वस्त्रादि, आदिशब्दात् कम्बलादि तस्य व्यापारणे चतुर्लघुकाः । आज्ञादयश्च दोषाः । साधुव्यापारेण मलिने च धावनादयो दोषाः । तथा राजपिण्डे यो मूर्द्धाभिषिक्तः सेनापत्यमात्यपुरोहितश्रेष्ठिसार्थवाहसहितो राज्यं भुङ्क्ते स राजा तस्य पिण्डोऽशनादिरष्टविधः । यदुक्तम्असणाइआ चउरो वत्थे पाए अ कंबले चेव । पाउंछणए अ तहा अट्टविहो रायपिंडो अ' ।। (बृ०क० ६३८४, नि०भा० २५००) तस्मिन् राजपिण्डे गृह्यमाणे गुरुकाश्चत्वारः । तथा स्त्रीणां पुरतस्त्रीणि चत्वारि पञ्च वा व्याकरणानि कारणेऽनुज्ञातानि, ततः परं तु षष्ठादिव्याकरणरूपामपरिमितां कथां कथयतश्चतुर्गुरुकाः । आज्ञादयश्च दोषाः

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226