Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 146
________________ जइ - जीयकप्पो काष्ठादिभिरविधिः । अङ्गुल्यादिभिस्तु विधिः । अत्र चतुर्थे भने शुद्धो विधिना प्रवृत्तत्वात् । शेषेषु त्रिषु प्रायश्चित्तं चतुर्गुरु । निशीथे तु आद्यभङ्गद्धये चतुर्लघु । तृतीये लघुमासः । उत्सर्गेण विधिना अविधिना वा न ते निष्कास्या यतस्तेषु विराध्यमानेषु संयमविराधना, क्षते त्वात्मविराधना ततोऽधिसोढव्यम् । यदुक्तं निशीथचूर्णी- सीस आह-वेअणट्टेण किं कायव्वं ?' आयरिअ आहमच्चुप्पइअं दुक्खं अभिभूओ वेअणाए तिव्वाए । अद्दीणो अबहिओ दुक्खं अहिआसए सम्म' ।। (नि०भा० १५०३) नच्चत्ति ज्ञात्वा, किं ज्ञात्वा ? दुःक्खमुत्पन्नम्, वेद्यते इति वेदना तिवाए वेअणाए सव्वं सरीरं व्याप्त' मित्यर्थः । न दीणो अदीणो पसण्णमणो स्वभावस्थ इत्यर्थः । न वा ओहयमणसंकप्पे । अथवा हा माते ! हा पिते ! एवमादि न भासए जो सो अदीणो, न वेअणट्टो अप्पणो सिरोरुकुट्टणादि करेति । अथवा न वेअणट्टो चिंतेइ अप्पाणं मारेमित्ति । तं दुक्खमुणन्नं सम्मं अहिआसेअवं इत्यर्थः । कारणे पुण नीहरणं करिज्ज । अबुच्छित्तिनिमित्तं जीविअट्ठी समाहिहेउं वा । गंडादीसुं किमिए जयणाए नीहरे भिक्खू' । ___ (नि०भा० १५१३) 'सुत्तत्थाणं अबुच्छित्तिं करिस्सामि' त्ति । जीवितही वा जीवंतो संजमं करिस्सामि, चउत्थाइणा वा तवेणं अप्पाणं भाविस्सामि, नाण-दसण-चरित्तसमाहिसाहणट्ठा वा अथवा समाहिमरणेण वा मरिस्सामि त्ति । किमिए जयणाए नीहरिज । जयणा जहा जीवोवघाओ न भवतीत्यर्थः । तथा संखडे सङ्घड्यां चतुर्गुरु । इदमुक्तं भवति-सङ्खडी द्विविधा-आचीर्णा अनाचीर्णा च । साधूनां कल्पनीया आचीर्णा, इतरा अनाचीर्णा। तत्रैता अनाचीर्णाःआवंतिआ पगणिआ सखित्त अखित्त बाहिराइण्णा । अविसुद्धा पंथ गमणा सपच्चवाया सभेआ य' ।। (नि०भा० १७७२, बृ०क० ३१८४) तटिककार्पटिकादीनां सर्वेषां यस्यां दीयते सा यावन्तिका । यस्यां पुनः पाखण्डिनामेव दश सरजस्कानां दश शाक्यानां दश परिव्राजकानां दश श्वेतपटानामेवं गणितानां दीयते सा प्रगणिता । स्वक्षेत्रे या सक्रोशयोजनाभ्यन्तरे, अक्षेत्रे या सचित्तपृथिव्यां सचित्तवनस्पतिकायादिषु या स्थिता । बाह्या या सक्रोशयोजनप्रमाणक्षेत्रावग्रहाद् बहिः । आकीर्णा चरकपरिव्राजकसरजस्कादिभिस्तटिककार्पटिकादिभिश्च या आकुला । यस्या मार्गः पृथिव्यब्बनपतित्रसैः संसक्तो भवति साऽविशुद्धपथा । सिंहादिश्वापदस्तेनादिप्रत्यपायसहिता सप्रत्यपाया । यस्यां विषकुटिलप्रयोगेण जीवितचरित्रभेदो भवति सा सभेदा । एताः सर्वा अपि सङ्घड्योऽनाचीर्णाः । यावन्तिकादिदोषविप्रमुक्ता आचीर्णाः । अनाचीर्णासु च नवसु सङ्खडीषु गच्छतः प्रायश्चित्तम् , तद्यथायावन्तिकायां चतुर्लघु । प्रगणितायां चतुर्गुरु । स्वक्षेत्रसङ्घड्यां चतुर्लघु । अक्षेत्रसवड्यां कायप्रायश्चित्तम् । बाह्यायामर्द्धयोजनार्द्धयोजनवृद्धौ चतुर्लघु-चतुर्गुरुप्रभृति । आकीर्णायां चतुर्गुरु । अविशुद्धपथायां कायप्रायश्चित्तमेव ।

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226