________________
जइ - जीयकप्पो एषोऽनुधर्मः प्रवचनस्य तीर्थस्य सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रोपहतपरिहारलक्षण एष एव धर्मोऽनुगन्तव्य इति भावः । एवं प्रलम्बान्यपि तीर्थकरादिभिरनाचीर्णानि पाश्चात्यैरपि परिहर्त्तव्यानि । तथा अवमकाले असंस्तरणे प्रलम्बग्रहणे इयं यतनाबत्तीसाई जा इक्कघास खवणं व नवि अ से हाणी । आवस्सएसु अत्थओ जा छम्मासे न य पलंबे' ।।
(बृ०क० १०७६, नि०भा० ४९३९) ओदनस्य द्वात्रिंशत् कवलाः पुरुषस्य प्रमाणप्राप्त आहारः । यदि ते एकेन कवलेन न्यूनाः प्राप्यन्ते ततस्तैरेव तिष्ठतु । यदि से तस्य साधोरावश्यकेषु अवश्यकृत्ययोगेषु हानिर्नापि नैव भवति, न च प्रलम्बानि गृह्णातु। एवं द्वाभ्यां कवलाभ्यां न्यूनाः द्वात्रिंशत् कवला लभ्यन्ते तैस्तिष्ठतु यदि तस्यावश्यकयोगा न परिहीयन्ते । एवमेकैकं कवलं परिहापयता तावद्वक्तव्यं यावद्ययेको ग्रासः कवलः प्राप्यते ततस्तेनैवास्ताम् । यदि तस्याऽऽवश्यकयोगा न परिहीयन्ते मा च प्रलम्बानि गृह्णातु । अथैकोऽपि कवलो न प्राप्यते तत एकं दिवसं क्षपणमुपवासं कृत्वा आस्तां द्वितीयदिवसे द्वात्रिंशत्कवलैः पारयतु । यदि तावन्तो न लभ्यन्ते, तत एकैककवलपरिहाण्या तावद्वक्तव्यं यावद्योकोऽपि कवलो न लब्धः । ततः षष्ठं कृत्वा समाधिसौधमध्यास्ताम् । षष्ठस्य च पारणके प्रमाणप्राप्तमाहारमुपादत्ताम् । अथ न लभ्यते ततः पूर्वोक्तयुक्त्या यावदेकोऽपि कवलो न लभ्यते । ततोऽष्टमं कृत्वा तिष्ठतु । मा च प्रलम्बान्याददीत । एवमनयैव दिशा दशमादिकमुत्तरोत्तरक्षपणं वर्द्धयता तावन्नेतव्यं यावत् षण्मासक्षपणं करोतु यद्यावश्यकयोगा न परिहीयन्ते मा च प्रलम्बानि गृह्णातु । एवमादि प्रकारेण प्रलम्बविषया यतना प्रकल्पादौ विस्तरेण प्रदर्शिता तत एवावसेया । एवं खादिमाहारविषयं प्रायश्चित्तं भणितम् । अथ स्वादिमाहारविषयं भण्यते । साइमि लवंगपूआइए गुरुग' (मूलगाथा १७४) त्ति । स्वादिमाहारमध्ये लवङ्गपूगादिके लवङ्गं देवकुसुमम्, पूगं पूगीफलम्, आदिशब्दात् खदिरवटिकाजातीयफलादिग्रहः । तस्मिन् गृहीते गुरुकाश्चत्वारो मासा भवन्तीति चतुर्विधाहारविषयं प्रायश्चित्तमुक्तम् ।।१७४।। अथात्र प्रतिपदमाज्ञाभङ्गादयो ये दोषाः प्रोच्यन्ते तद्विषयं प्रायश्चित्तमाह
आणाभंगे चउगुरु लहुगा मिच्छे तहाणवत्थाए ।
गुरुगा आयविराहणि संजमि वयकायनिष्फन्न ।।१७५।। व्याख्या-इयं गाथा सामान्यविषयाऽपि प्रलम्बप्रक्रमात् प्रलम्बविषया प्रदीत । तद्यथा-भगवता प्रतिषिद्धं यत् प्रलम्बं न कल्पते, तद् ग्रहणं कुर्वता भगवतामाज्ञाभङ्गः कृतो भवति । तस्मिँश्चाऽऽज्ञाभने चतुर्गुरुकाः । अत्राह परःअवराहे लहुगतरो आणाभंगम्मि गुरुतरो किह णु ? आणाइच्चिअ चरणं तभंगे जाण किं न भग्गं नु' ।।
(बृ०क० ९२४, नि०भा० ४७८३) A. निशीथादौ ।