________________
जइ - जीयकप्पो अपराधे चारित्रातिचारे लघुतरो दण्डो भवद्भिः पूर्वं भणितः । तथाहि-अचित्ते प्रलम्बे मासलघुः सचित्ते चतुर्लघु । इह पुनराज्ञाभङ्गे चतुर्गुरुकमिति गुरुतरो दण्डः कथं कस्मात् ? नुरिति वितर्के । अपि च-अनपराधिजीवोपघातो दृश्यते तेन तत्र गुरुतरो दण्डो युक्तियुक्तः । आज्ञायां पुनर्नास्ति जीवोपघात इति लघुतर एवात्र भणितुमुचित इति । गुरुराह-आज्ञायामेव भागवत्यां चरणं चारित्रं व्यवस्थितम् । अतः तद्भङ्गे तस्या आज्ञाया भङ्गे किं तन्मूलोत्तरगुणादिकं वस्तु न भग्नम् ? । अपि तु सर्वमपि भग्नमत आज्ञायां गुरुतरो दण्ड उच्यते । अस्यैवार्थस्य प्रसाधनार्थमयं दृष्टान्तःसोऊण य घोसणयं अपरिहरंता विणासं जह पत्ता । एवं अपरिहरंता हिअसबस्सा उ संसारे' ।।
(बृ०क० ९२५, नि०भा० ४७८४) राज्ञा कारितां घोषणां श्रुत्वा घोषणया च निवारितमर्थमपरिहरन्तो यथा द्रव्यापहारलक्षणं विनाशं प्राप्ताः । एवं तीर्थकरनिषिद्धं प्रलम्बग्रहणमपरिहरन्तो हृतसर्वस्वा अपहृतसंयमरूपसर्वसाराः संसारे दुःखमवाप्नुवन्ति । जहा कोइ नरवई सो छहिं पुरिसेहिं अन्नतरकज्जे तोसितो इमेणत्थेण घोषणं कारेइ । इमे छप्पुरिसा मज्झं पुरे अप्पणो इच्छाए विहरमाणा महाजणेणं अदिट्टपुब्वा अणुवलद्धविभवनेवत्था अच्छंति । जो ते छिवइ वा पीडेइ वा मारेइ वा तस्स उग्गं दंडं करेमि । एवं घोषणयं सोऊण ते पउरा जणवया य दंडभीता ते पुरिसे पयत्तेण वण्णरूवाईहिं चिंधेहिं आगमिऊणं पीडापरिहारकयबुद्धी तेसिं छण्हं पुरिसाणं पीडं परिहरंति ते निद्दोसा । जे पुण अणायारमंता न परिहरंति ते रन्ना सबस्सावहारदंडेणं दंडिआ । एस दिदंतो । अयमत्थोवणओ-रायत्थाणीआ तित्थयरा । पुरत्थाणीओ लोगो । छप्पुरिसत्थाणीआ छक्काया । घोषणत्थाणीया छक्कायरक्खणपरूवणपरा छज्जीवणिआदओ आगमा । छिवणाइत्थाणीआ संघट्टणादी । पउरजणवयत्थाणीआ साहू । दंडत्थाणीओ संसारो । तत्थ जे य पयत्तेण छण्हं कायाणं सरूवं रक्खणोवायं च आगमेऊण जहुत्तविहीए पीडं परिहरंति ते कम्मबंधदंडेणं न दंडिजति । इअरे पुण संसारे पुणो पुणो सारीरमाणसेहि दुक्खसयसहस्सेहिं दंडिजति त्ति । तथा मिथ्यात्वे चत्वारो लघुका भवन्ति । शङ्कादयश्च दोषाः । यदुक्तम्मिच्छत्ते संकाई जहेअ मोसं तहेव सेसंपि । मिच्छत्तथिरीकरणं अन्भुवगमवारणमसारं' ।।
(बृ०क० ९२९, नि०भा० ४७८८) मिथ्यात्वे विचार्यमाणे शङ्कादयो दोषा वक्तव्याः । शङ्का नाम किं मन्ये अमी यथावादिनस्तथाकारिणो न भवन्ति ? येन प्रलम्बानि गृह्णन्ति । आदिशब्दात् काङ्क्षादयो दोषाः । तथा यथैतन्मृषा तथैव शेषमन्यदप्येतेषां मिथ्यारूपमेवेति चित्तविप्लुतिः स्यात् , मिथ्यात्वाद्वा चलितभावस्य सम्यक्त्वाभिमुखस्य प्रलम्बग्रहणदर्शनात् पुनरपि मिथ्यात्वे स्थिरीकरणं भवति । अभ्युपगमं वा प्रव्रज्याया अनुव्रतानां वा सम्यग्दर्शनस्य वा कर्तुकामस्याऽपरः कश्चित् वारणं कुर्यात्-मा एतेषां समीपे प्रतिपद्यस्व । असारं निस्सारममीषां प्रवचनं मयेदं चेदं च दृष्टमिति । तथा अनवस्थायां चत्वारो लघुका भवन्ति । सा चेयम्
A. चिद्वैः।