________________
जइ - जीयकप्पो एगेण कयमकज्जं करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपरखुच्छेदो संजमतवाणं' ।।
(बृ०क० ९२८, नि०भा० ४७८७, पंचव० ५९१) एकेन केनचिदाचार्यादिना किमप्यकार्यं प्रमादस्थानं कृतं प्रतिसेवितं ततोऽन्योऽपि तत् प्रत्ययादेष आचार्यादिः श्रुतधरोऽप्येवं करोति, नूनं नास्त्यत्र दोष इति तदेवाकार्यं करोति । ततोऽपरोऽपि तथैव करोति तदन्योऽपि तथैवेत्येवं सातबहुलानां सातगौरवप्रतिबद्धानां प्राणिनां परम्परया प्रमादस्थानमासेवमानानां संयमतपसोळवच्छेदः प्राप्नोति । यद्धि संयमस्थानं तपःस्थानं वा पूर्वाऽऽचार्येण सातगौरवगृध्नुतया वर्जितं तत् पाश्चात्यैरदृष्टमिति कृत्वा व्यवच्छिन्नमेव । अथ विराधना, सा च द्विधा-आत्मविषया संयमविषया च । तत्राऽऽत्मविराधना जिह्वालोलुपतया बहुप्रलम्बभक्षणे विसूचिकादिभिः । तस्यां च गुरुकाश्चत्वारो भवन्ति । संयम पञ्चमहाव्रतषड्विधजीवनिकायरक्षणात्मकः तस्मिन् या विराधना तस्यां व्रतकायनिष्पन्नं प्रायश्चित्तं भवति । अयमर्थः- यत् पूर्वं व्रतषट्कविराधनाविषयं षड्विधजीवनिकायविराधनाविषयं च प्रायश्चित्तं प्रतिपादितं तदत्र संयमविराधनायामवगन्तव्यमिति । संयमविराधना चात्रेत्थं भवति । प्रलम्बानि गृह्णानो वनस्पतिकायान् न परित्यजति, तं चापरित्यजन् शेषानपि कायानसौ भावतः न परित्यजति, तदपरित्यागे च प्रथमव्रतपरित्यागः । प्रथमव्रतपरित्यागे च शेषव्रतपरित्यागोऽप्युपजायते । यद्वा-विरतिलक्षणं चारित्रं भणितं तच्च लक्षणं प्रलम्बानि गृह्णतो न स्यात् । लक्षणाभावे च चारित्रमपि न भवेत् । प्रलम्बग्रहणाच्च साधोर्जीवेषु समता न विद्यते, समताया अभावाच्च सम्यक्त्वमपि नास्ति तस्यापि सामायिकभेदतया समतारूपत्वात् । तथा ज्ञानोपदेशे क्रियाद्वारेणावर्त्तमानोऽसौ ज्ञान्यपि अज्ञानी मन्तव्यः । एवमन्यत्राऽप्याज्ञाभङ्गादिष्विदं प्रायश्चित्तं ज्ञातव्यमिति पिण्डविषयं प्रायश्चित्तं प्रपञ्चितम् ।।१७५ ।। अथ वसतिमधिकृत्य प्रायश्चित्तमाचिख्यासुर्मूलोत्तरगुणदुष्टवसतिस्वरूपमाह
पिट्ठीवंसो दो धारणा य चत्तारि मूलवेलीओ। मूलगुणेहिं असुद्धा एसा आहागडा वसही ।।१७६ ।।
(बृ०क० ५८२, नि०भा० २०४६) व्याख्या-उपरितनस्तिर्यपाती पृष्ठिवंशः । द्वौ मूलधारणौ ययोरुपरि पृष्ठिवंशः तिर्यग्निपात्यते । चतस्रश्च मूलवेलय उभयोर्धारणयोरुभयतो द्विद्विवेलिसम्भवात् । एते वसतेः सप्त मूलभेदा एतैर्मूलगुणैः सप्तभिरशुद्धा या एषा वसतिः आधाकृता भवति साधूनाधाय सम्प्रधार्य कृता आधाकृता। पृषोदरादित्वादिष्टरूपनिष्पत्तेः।।१७६।।
वंसगकडणुक्कंबणछायणलेवणदुवारभूमी अ। सपरिकम्मा वसही एसा मूलुत्तरगुणेहिं ।।१७७।।
(बृ०क० ५८३, नि०भा० २०४७)