________________
जई - जीयकप्पो
व्याख्या– वंशका ये वेलीनामुपरि स्थापयन्ते पृष्ठवंशस्योपरि तिर्यक् । कटनं कटादिभिः समन्ततः पार्श्वाणामाच्छादनम् । उत्कम्बनम् उपरि कम्बिकानां बन्धनं छादनं दर्भादिभिराच्छादनम् । लेपनं कुड्यानां कर्दमेन गोमयेन च लेपप्रदानम् । दुवार' त्ति । संयतनिमित्तमन्यतो वसतेर्द्वारकरणम् । भूमि' त्ति ।। समभूमिकरणम् । एतत् सप्तविधमुत्तरकरणम् । एषा सपरिकर्मा वसतिर्मूलगुणैरुत्तरगुणैश्च । एषा नियमेनाविशोधिकोटिरन्येऽपि चोत्तरगुणा वसतेर्विद्यन्ते, तैः कृता विशोधिकोटिः ।।१७७।। केतेऽन्ये उत्तरगुणाः ? इत्यत आह
दूमिअधूमिअ वासिअ उज्जोइअबलिकडा अवत्ता य । सित्ता संमट्टावि अ विसोहिकोडीगया
वसही ।। १७८ । । (बृ०क०५८४, नि० भा० २०४८ )
व्याख्या
- दूमिता नाम सुकुमारलेपेन सुकुमारीकृतकुड्या सेटिकया धवलीकृतकुड्या च । धूपिता अगुरुप्रभृतिभिः वासिता पटवासकुसुमादिभिः । उद्योतिता अन्धकारे अग्निकायेन कृतोद्योता । बलिकृता यत्र संयतनिमित्तं बलिविधानं कृतम् । अवत्ता नाम यत्र भूमिरुपलिप्ता । सिक्ता आवर्षणकरणतः । सम्मृष्टा सम्मार्जन्या, संयतनिमित्तमेवमुत्तरगुणैः कृता वसतिर्विशोधिकोटिगता भवति ।। १७८ ।। अथाविशोधिकोटि – विशोधिकोटिगतवसत्यवस्थानविषयं प्रायश्चित्तमाह
मूलुत्तरचउभंगो पढमे दोहिं गुरु गुरुग बिअतइए । तवगुरुकालगुरुकमा अत्तटुकडो चरिम सुद्धो ।। १७९।।
(बृ०क० ५८७, नि० भा० २०५१ ) व्याख्या–मूलगुणाः पृष्ठवंशादय उत्तरगुणा वंशकादयः । तेषु मूलोत्तरगुणेषु चतुर्भङ्गी । गाथायां पुंस्त्वं प्राकृतत्वात् । मूलगुणा अपि पृष्ठवंशादयः संयतनिमित्तमुत्तरगुणा अप्यविशोधिकोटिगता वंशकादयः संयतनिमित्तमिति प्रथमो भङ्गः । अत्र प्रायश्चित्तं चत्वारो गुरुका द्वाभ्यां गुरवः तपसा कालेन च । मूलगुणाः संयतार्थमुत्तरगुणा अविशोधिकोटिगताः स्वार्थमिति द्वितीयः । अत्र चत्वारो गुरुकास्तपोगुरवः काललघवः । मूलगुणाः स्वार्थमुत्तरगुणा अविशोधिकोटिगताः संयतार्थमिति तृतीयो भङ्गः । अत्र चत्वारो गुरवः कालगुरवः तपोलघवः क्रमादवसेयाः । आत्मार्थं मूलगुणा आत्मार्थमेव चोत्तरगुणा इत्येवमात्मार्थकृतश्चरमभङ्गः शुद्धः । चतुर्थभङ्गवर्त्तिवसताववस्थाने प्रायश्चित्तं न भवतीत्यर्थः ।। १७९।।
अफासुण देसे सव्वे वा दूमिआइ चउलहुआ । अप्फासु धूमजोई देसम्मिवि चउलहू हुति । । १८० ।। सेसेसु फासुएणं देसे लहु सव्वहिं भवे लहुगा । सुन्नवसहीइ गुरुगा बालाइवसहिपाले
वि ।। १८१ ।।