________________
जइ - जीयकप्पो व्याख्या-यत्र देशतः सर्वतो वा अप्रासुकेन वस्तुना दूमितादि । आदिशब्दात् समस्तान्यपि पदानि गृहीतानि । तत्र तिष्ठतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः । यत्र पुनरगुरुप्रभृतिभिधूपनम् अन्धकारेऽग्निकायेन उद्द्योतनं तत्र नियमादप्रासुकः सचित्तोऽग्निकाय इति देशेऽपि चत्वारो लघुका भवन्ति किमुत सर्वतः ? शेषेषु धूपितमुद्द्योतितं च मुक्त्वाऽन्येषु दूमितवासितबलिकृतावत्तसिक्तसंसृष्टरूपेषु भेदेषु प्रासुकेन देशतः करणे लघुमासः । सर्वतश्चत्वारो लघुका भवन्तीति मूलोत्तरगुणाऽशुद्धवसत्यवस्थानविषयं प्रायश्चित्तमुक्तम् । तथा साधुभिर्वसतिः शून्या न कार्या, बालादिर्वसतिपालश्च न विधेयोऽनेकदोषसम्भवात् । ततः शून्यवसतौ कृतायां गुरुकाश्चत्वारः प्रायश्चित्तं बालादौ, आदिशब्दाद् ग्लाने अव्यक्ते वा वसतिपालेऽपि कृते गुरुकाश्चत्वारो भवन्ति । निशीथादौ तु शून्यवसतौ चत्वारो लघुकाः कालतपोगुरवः । बालादौ तु मासलघु ।। १८०-१८१।। अथ संसक्तवसतिस्थितिविषयं प्रायश्चित्तमाह
संसत्ताए काएहि सजिअमीसेहिं होइ सट्टाणं । नरतिरिसंसत्ताए लहुगा गुरुगा नपुत्थीहिं ।।१८२।।
(बृ०क० ५८९) व्याख्या-कायैः पृथिव्यप्तेजोवनस्पतिकायैः सजीवैः सचित्तैः मित्रैश्च सचित्ताचित्तरूपैः संसक्तायां संयुक्तायां वसतौ तिष्ठतः प्रायश्चित्तं स्वस्थानं स्वस्थाननिष्पन्नं भवति । तद्यथा-सचित्तैः पृथिवीकायादिभिः संसक्तायां वसतौ चतुर्लघु । हरितैरनन्तैश्चतुर्गुरु । प्रत्येकबीजै रात्रिंदिवपञ्चकं लघु । अनन्तबीजैर्गुरुकम् । मित्रैः पृथिव्यादिभिर्मासलघु । हरितैरनन्तैर्मिश्रेर्मासगुरु । बीजैरनन्तैश्च मित्रैः सचित्तैरिव त्रसकायैश्चत्वारो गुरुकाः । तथा नरैः पुरुषैः तिर्यक्स्त्रीभिश्च संसक्तायां वसतौ तिष्ठतां निर्ग्रन्थानां चत्वारो लघुकाः । नपुंसकैर्मनुष्यस्वीभिश्च संसक्तायां वसतौ चत्वारो गुरुकाः । निर्ग्रन्थीनां पुनस्त्रीभिः संसक्तायां चतुर्लघु । पुरुषसंसक्तायां चतुर्गुरुः स्यादित्यनुक्तमप्यवगन्तव्यम् ।।१८२।। अथ वसतिर्नवधा भवतीति दर्शयति
कालाइक्कंतउवट्ठाण अभिक्कंत अणभिक्कंता य । वज्जा य महावज्जा सावज्जमहऽपकिरिआ य ।।१८३ ।।
(बृ०क० ५९३) व्याख्या-शय्या नवप्रकारा भवति । तद्यथा-कालातिक्रान्ता, उपस्थाना, अभिक्रान्ता, अनभिक्रान्ता, वा, महावा, सावया, महासावया, अल्पक्रिया च ।। १८३।। साम्प्रतमेतासामेव कालातिक्रान्तादीनां व्याख्यानमभिधित्सुराह
उडुवासा समईआ कालाइक्कत सा भवे सिज्जा । सा चेव उवट्ठाणा दुगुणादुगुणं अवज्जित्ता ।।१८४ ।।
(बृ०क० ५९५) A. स्त्रीभिः – हलकी जातनी स्त्रीओवडे संसक्त अवी वसतिमां ।