________________
जड- जीयकप्पो व्याख्या-ऋतुबद्धकाले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धे काले मासे पूर्णे, वर्षाकाले च चतुर्मासे पूर्णे यदि साधवस्तिष्ठन्ति तदा सा वसतिः कालातिक्रान्ता भवेत् १। यस्यां वसतौ ऋतुबद्धे मासम्, वर्षाकाले चतुर्मासं च स्थिता यदि तस्यामृतुबद्धवर्षाकालसम्बन्धिकालमर्यादां द्विगुणां द्विगुणामवर्जयित्वा भूयः समागत्य तिष्ठन्ति तदा सैव वसतिरुपस्थाना २ । किमुक्तं भवति-ऋतुबद्धे काले द्वौ मासौ, वर्षासु अष्टमासानपरिहत्य यदि पुनरागच्छन्ति यस्यां वसतौ ततः सा उपस्थाना भवति । अन्ये पुनरिदमाचक्षते-यस्यां वसतौ वर्षावासं स्थितास्तस्यां द्वौ वर्षारात्रावन्यत्र कृत्वा यदि समागच्छन्ति ततः सा उपस्थाना न भवति, अर्वाक् तिष्ठतां पुनरुपस्थाना ।।१८४।।
जावंतिअ वसही तेहिं भुत्त अभिक्कंत इअरणभिक्कंता । वज्जा सगिहं दाउं सट्टाए अन्नगिहकरणे ।।१८५।।
(बृ०क० ५९६) व्याख्या-या शय्या आचण्डालेभ्यो यावन्तिकी सा यदाऽन्यैश्चरकादिभिः पाखण्डस्थैर्गृहस्थैर्वा निषेविता पश्चात् संयतास्तिष्ठन्ति तदा सा अभिक्रान्ता ३ । सा एव यावन्तिकी अन्यैः पाखण्डस्थैर्गृहस्थैर्वाऽपरिभुक्ता तस्यां यदि संयताः प्रविशन्ति ततः सा अनभिक्रान्ता ४। स्वगृहं यतिभ्यो दत्त्वा स्वार्थमन्यगृहकरणे वा भवति । आत्मार्थे पूर्वकृतं गृहं साधुभ्यः प्रदत्तं ततः स्ववसनार्थमन्यन्नवीनं गृहं यदि गृहस्थः करोति, तदा यत् साधुप्रदत्तं गृहं सा वसतिः वा प्रोच्यते इत्यर्थः ५।।१८५।।
पासंडिअट्ठविहिआ महवज्जा समणअट्ठ सावज्जा ।
__ महसावज्ज जइट्ठा चरिमा अत्तट्टकडसुद्धा ।।१८६।। व्याख्या-बहूनां श्रमणब्राह्मणप्रभृतीनां पाखण्डिनामर्थाय या विहिता वसतिः सा महावा ६ । श्रमणार्थाय पञ्चानां श्रमणानामर्थाय या कृता सा सावया ७। ते चामी- निग्गंथसक्कतावसगेरुअ आजीवि पंच महासमणा' निर्ग्रन्थाःसाधवः क्षपणका वा, शाक्या रक्तपटाः, तापसा वनवासिनः, गैरुकाः परिव्राजकाः, आजीवका गोसालकशैक्षाःपाण्डुरभिक्षवो वा । या पुनरमीषामेव यतीनामर्थाय कृता सा महासावया ८ । या पुनरात्मार्थं कृता शुद्धा च कालातिक्रान्तादिदोषरहिता परिकर्मविप्रमुक्ता सर्वस्यापि परिकर्मणः स्वत एवाग्रे प्रवर्त्तितत्वात् सा वसतिश्चरमा अल्पक्रिया वेदितव्या ९ ।। १८६।। अथैतासु वसतिषु तिष्ठतः प्रायश्चित्तमाह
कालाइआइ लहुगो उवठाणाईसु चउसु चउलहुगा । महावज्जाइसु गुरुगा अपकिरिआइ सुद्धो उ ।।१८७।।