________________
जइ - जीयकप्पो व्याख्या-कालातिक्रान्तायां वसतौ तिष्ठतो लघुको मासो भवति ऋतुबद्धे काले कालातिक्रान्तं तिष्ठतो मासलघु । वर्षाकाले चत्वारो लघवो भवन्तीत्यर्थः । उपस्थानादिषु चतसृषु उपस्थानायामभिक्रान्तायामनभिक्रान्तायां वायां चेत्यर्थः, तिष्ठतः प्रत्येकं चत्वारो लघुकाः । तथा महावादिषु तिसृषु महावायां सावद्यायां महासावद्यायां चेत्यर्थः, प्रत्येकं चत्वारो गुरवः । परं तपःकालविशेषितास्तद्यथा-महावायां चत्वारो गुरुकास्तपोलघवः । सावद्यायां तपोगुरवः । महासावद्यायां तपसा कालेन च गुरवः । अल्पक्रियायां तु वसतौ तिष्ठन् शुद्धः । प्रायश्चित्तभाग न भवतीत्यर्थः । आसां च नवानां शय्यानां मध्ये पूर्वस्याः पूर्वस्या अनुज्ञा वेदितव्या । किमुक्तं भवति-नवानां शय्यानां मध्ये या पूर्वाऽल्पक्रिया सा तावत् प्रथममनुज्ञाता, लेशतोऽपि सावद्याभावात् । तस्या अभावे शेषाणां मध्ये कालातिक्रान्ता या पूर्वा सा अनुज्ञाता । अल्पक्रियाया अलाभे सा आश्रयणीयेति भावः । तस्या अप्यलाभे शेषाणां पूर्वा उपस्थाना सा अनुज्ञाता । एवं या या पूर्वा सा सा अनुज्ञाता, तावद्वक्तव्या यावत् सावद्या महासावद्यायाः पूर्वा सा अनुज्ञाता । एवं पूर्वस्याः पूर्वस्या अलाभे उत्तरस्या उत्तरस्या अनुज्ञा वेदितव्या ।।१८७।। अथ विशेषतः सजलवसतिविषयं प्रायश्चित्तमाह
सिअउसिणोदगफासुअअफासु चउभंगि सदगसिज्जाए।
ठतस्स पढमतइए लहुगो लहुगा बिअचउत्थे ।।१८८।। व्याख्या-शीतमुष्णं चोदकं प्रासुकमप्रासुकं च । अत्र चतुर्भङ्गी भवति । तद्यथा-शीतोदकं प्रासुकम्, शीतोदकमप्रासुकम्, उष्णोदकं प्रासुकम्, उष्णोदकमप्रासुकम् । तत्र प्रथमभङ्गे उष्णोदकमेव शीतीभूतं तन्दुलधावनादिकं वा, द्वितीयभङ्गे शीतोदकमेव स्वभावस्थम्, तृतीयभङ्गे उष्णोदकमुवृत्तत्रिदण्डम् , चतुर्थभङ्गे तापोदकादिकं मन्तव्यम् । एवं चतुर्विधोदकेन सहिता या शय्या तस्यां तिष्ठतः साधोः प्रथमे तृतीये च भङ्गे लघुको मासो भवति । द्वितीय-चतुर्थे पुनर्लघुकाश्चत्वारो भवन्ति । एवं गुडमोदकशष्कुलिकाक्षीरदधिनवनीतसर्पिस्तैललपनश्रीशिखरिणीप्रभृतिविविधाहारप्रतिबद्धवसतौ तिष्ठतश्चतुर्लघवो भवन्ति ।।१८८।। अथापरवसत्यलाभे आधाकर्मिकस्त्रीसंसक्तवसत्योर्मध्ये कस्यां वस्तव्यमिति विचारं दर्शयति
एगा कम्मिअ वसही थीसंसत्ता इअरा दुसुवि गुरुगा ।
कारणि कम्मिअवसहीइ वसणमुचिअं न इअरीए ।।१८९।। व्याख्या-एका वसतिः कार्मिकी आधाकर्मदोषदुष्टा मूलगुणैरशुद्धेत्यर्थः । इतरा द्वितीया पुनर्मूलगुणैः शुद्धा परं स्त्रीसंसक्ता स्त्रीप्रतिबद्धा द्वयोरपि वसत्योः स्थितौ चत्वारो गुरुगा इति प्रायश्चित्तं समानमेव । तथापि तयोर्मध्ये कार्मिकवसतौ कारणे अपरनिर्दोषवसत्यलाभादिके पुष्टालम्बने वसनमवस्थानमुचितम्, न पुनरितरस्याम्, स्त्रीसंसक्तवसतौ ।। १८९।। कुतः ? इत्याहुः
जं एगकम्मदोसो कम्मिअवसहिवसणे गुरुस्सेव । इअरीए सव्वेसिं भुत्ताभुत्ताणं बहु दोसा ।।१९०।।