________________
जइ - जीयकप्पो व्याख्या-यद् यस्मात् कारणात् कार्मिकवसतिवसने आधाकर्मदोषदूषितायां वसताववस्थाने क्रियमाणे गुरोरेवाचार्यस्यैव, न शेषाणामेकः कर्मदोष आधाकर्मलक्षणो दोषो भवति । इतरस्यां स्त्रीसंसक्तवसतौ पुनः सर्वेषां साधूनां भुक्तभोगानामभुक्तभोगानां च बहवो दोषाः प्रादुष्यन्ति । तथाहि-भुक्तभोगानां स्मृतिकरणम् अभुक्तभोगानां कौतुकं भवति । तत उन्निष्कामणादयो दोषाः । गृहिणां च शङ्का जायते । एते अत्र स्थिता नूनं प्रतिसेवन्त इति लोके च परिवादो भवति- साधु तपोवने वसती'ति । अथवा यदि स्त्रीसंसक्ता वसतिः पुरुषाकीर्णा पुरुषाश्च सुशीलाः स्त्रियोऽपि शीलवत्यः भीतपरिषदश्च ते पुरुषाः । यद्वा-ताः स्त्रियो बाला अतीववृद्धा वा तरुण्यो वा तेषां साधूनां नालबद्धा अगम्याः तदा आधाकर्मिकवसतिः परित्यज्यते । यतः साधुभिः सर्वत्र यथा बहुतरगुणप्राप्तिः स्यात् तथा प्रवर्तितव्यम् । यदागमःजम्हा सव्वाणुन्ना सबनिसेहो अ नत्थि सममि । आयं वयं तुलिज्जा लाहाकंखी व वाणिअओ' ।। ।।१९०।। अथ वसतिप्रमार्जनविधिमाह
उडुवसहि दो पमज्जण तइअं वासासु अन्नहा लहुगो ।
वसहि बहुसो पमज्जणि अइसंघट्टन्नहिं गच्छे ।।१९१।। व्याख्या-यत्राऽपि वसतिस्त्रससंसक्ता न भवति । तत्रापि वसतेरष्टसु ऋतुबद्धमासेषु द्वे प्रमार्जन कर्त्तव्ये । तद्यथा-पूर्वाह्न अपराह्ण च । वर्षासु पुनस्तृतीयं प्रमार्जनं मध्याह्ने विधेयम् । अन्यथा यथोक्तप्रमार्जनाकरणे लघुको मासः प्रायश्चित्तं भवति । अथ कुन्थुप्रभृतिभिस्त्रसप्राणैः संसक्ता वसतिस्तत ऋतुबद्धे वर्षामासे च यथोक्तप्रमाणादतिरिक्तमपि बहुशः प्रमार्जनं कुर्यात् । अथ वसतेर्बहुशः प्रमार्जने त्रसप्राणानामतीव सचट्टो भवति अतिबहवो वा त्रसास्ततोऽन्यत्र उपाश्रये ग्रामे वा गच्छेयुः । अथ वसतेरेकदेशे पिपीलिकामत्कोटकादिनगरम् अन्यतरप्राणिसन्तानो वा भवति । तत्राऽयं विधिः-कुटकण्ठं तत्र स्थापयन्ति क्षारेण वोपलक्षितं कृत्वा परिहरन्ति। अनुपयुक्ततया गच्छन् साधून शैक्षम् अयोगोलकल्पानपरान् वा नोदयन्ति । एवं वसतिविषयं प्रायश्चित्तं प्रदर्शितम् ।।१९१।। अथ वस्त्रमपि मूलोत्तरगुणदुष्टं न ग्राह्यं तद्ग्रहणे प्रायश्चित्तमभिधित्सुराह
तणवितणसंजयट्ठा मूलुत्तरपमज्जणाइ चउभगे।
गुरुगा गुरुगा लहुगा विसेसिआ चरिमओ सुद्धो ।।१९२।। व्याख्या-इह संयतार्थं वस्त्रनिष्पत्तिहेतोःयत् तननं तानपरिकर्म वितननं च वानपरिकर्म क्रियते । एतौ मूलगुणौ। यद् वस्त्रं निष्पन्नं सन्(?) खलिकां पाय्यते तत् पायनम् , तदादय आदिशब्दाज्जलप्रक्षेपधावनधूपनादयो गृह्यन्ते एते उत्तरगुणा वस्त्रस्य । अत्र चतुर्भङ्गी भवति । तननवितनने संयतार्थं पायनमपि संयतार्थम् ,तननवितनने संयतार्थं पायनं स्वार्थम् , तननवितनने स्वार्थं पायनं संयतार्थम् , तननवितनने स्वार्थं पायनमपि स्वार्थम् । अत्रायेषु
A. सुष्छु।
B. वासः ।