________________
जई - जीयकप्पो
त्रिषु भङ्गेषु गुरुका गुरुका लघुकाश्च तपःकालाभ्यां विशेषिताः प्रायश्चित्तम् । तद्यथा – प्रथमे भङ्गे चत्वारो गुरवः तपसा कालेन च गुरवः । द्वितीयेऽपि चतुर्गुरुकास्तपसा गुरवः कालेन लघवः । तृतीये चत्वारो लघुकाः कालेन गुरवस्तपसा लघवः । चरमः चतुर्थो भङ्गो द्वयोरपि मूलोत्तरगुणयोः स्वार्थत्वात् शुद्धो निर्दोषः ।।१९२।। पुनर्वस्त्रविषयमेव प्रायश्चित्तमाह—
लहुग समणट्टधोए वत्थेणत्तट्ठिए अ पक्खित्ते ।
निक्खित्तु छिन्नकालं सुज्झइ अवहीसमत्तिदिणे ।।१९३।।
व्याख्या - श्रमणानां संयतानामर्थाय यद्वस्त्रं धौतं प्रक्षालितं तस्मिन् गृहीते लघुकाश्चत्वारा भवन्ति । ऋणार्त्तस्य यद्वस्त्रं स्थितं स्यात् तस्मिँश्च वस्त्रे गृहीते चतुर्लघुकाः, अथवा अनात्मस्थिते परगृहे स्थापिते एवं रूपे प्रक्षिप्ते प्रक्षेपकदोषदुष्टे वस्त्रे गृहीते चतुर्लघुकाः । गत्तट्ठिए' इति पदस्यार्थोऽन्यथाप्यभ्यूह्यः । ननु प्रक्षेपकदोषः कथं स्यात् ? उच्यते—ये श्रमणश्रमणीजना लिङ्गमात्रधारिणस्ते उद्गमादिभिर्दोषैरशुद्धानि वस्त्राणि गृह्णन्ति स्वयमेव वा तन्तुवायैर्वाययन्ति, लिङ्गतः प्रवचनतोऽपि साधर्मिकाश्च ते इति तेषां वस्त्राण्यकल्पनीयानीति हेतोः साधवो न गृह्णन्ति । ततस्ते लिङ्गस्थाः संविग्नबहुमानिनः सन्तो वस्त्राण्यन्यत्र यथाभद्रककुलादौ प्रक्षिपेयुः । यदि साधवो वस्त्राणि गवेषयेयुस्तदा प्रदद्ध्वमितिकृत्वा । तथा श्रावकाः श्राविकाः साधुस्वजना वा अस्मद्गृहे उद्गमदोषाशङ्कया साधवो न गृह्णीयु' रित्यन्यत्र स्थापयेयुः । तथा ऋद्धिमतः श्रेष्ठिसार्थवाहादेगृहे यतस्ततः प्रवेशो न लभ्यते, तस्य च पत्नी श्राविका सा भक्तिवशादन्यत्र प्रक्षिपेद् वस्त्राणि । यद्वा-ऋद्धिमान् पाखण्डिनां श्रमणानां वा पुण्यार्थं वस्त्राणि दद्यात् । तत्र साधवो निमन्त्रिता अप्युद्गमाशङ्कातो न गृह्णन्ति, तेन सोऽपि दानश्रद्धालुस्तथैवान्यत्र प्रक्षिपेत् । एवं मामकस्यापि प्रान्तत्वेनेर्ष्यालुत्वेन वा कस्यापि स्वगृहे प्रवेशं न ददात्येवं लक्षणस्य भार्या श्राद्धिका भक्तिभरप्रेरिता सती तथैवाऽन्यस्मिन् गृहे स्थापयेत् । राजपिण्डविवर्जिनः साधवो राजसत्कवस्त्राणि नाददीरन्, ततो राजाऽपि दानश्रद्धालुतयाऽन्यत्र प्रक्षिपेत् । स्तेनस्यापि वस्त्रं साधवो न गृणन्ति, ततः सोऽपि संयतभद्रको मदीयं न स्वीकुर्वन्ति इत्यन्यत्र प्रक्षिपेत् । एवं साधूनामर्थाय यदन्यत्र वस्त्राणां प्रक्षेपणं स प्रक्षेपकदोषः । यत् पुनः प्रथमं स्वार्थं निक्षिप्य पश्चात् साधूनामनुज्ञायते स निक्षेपकः । स च कालेन छिन्नो वा स्यादछिन्नो वा । छिन्नो नाम निर्द्धारितः । यदि वयं देशान्तरगताः सन्तः एतावतः कालादर्वाक् न प्रत्यागच्छामस्ततो युष्माभिरमूनि वस्त्राणि श्रमणेभ्यः प्रदातव्यानीति । अच्छिन्नः पुनः प्रतिनियतकालविवक्षारहितः । तत्र यन्निक्षिप्तं निक्षेपके स्थापितं वस्त्रं छिन्नकालं प्रतिनियतकालावधिकं कृतं स्यात् तदवधिसमाप्तिदिने यस्मिन् दिनेऽवधिः पूर्णो भवति तस्मिन् दिने शुद्ध्यति कल्पते, न परतः स्थापनादोषसद्भावात् । अच्छिन्ने पुनर्यदा प्रयच्छन्ति तदा कल्पते ।।१९३।। अथाञ्जनादिदूषितमध्यमादिभागवस्त्रग्रहणविषयं प्रायश्चित्तं शेषदोषातिदेशं चाह