________________
जइ - जीयकप्पो प्रायश्चित्तं भवतीत्यर्थः । स्त्रीविकथायां तु निशीथे चतुर्गुरु । शेषे उक्तेभ्योऽवशिष्टे द्वितीयव्रतातिचारे सूक्ष्ममृषावादलक्षणे सर्वत्र लघुमासोऽसामाचारीनिष्पन्नः । एवमन्यत्रापि सर्वत्राऽसामाचार्यां लघुमासो मन्तव्यः । एतेषु पुनः स्थानेषु मृषावादोऽपि न दोषाय । यथाउड्डाहरक्खणट्ठा संजमहेउं व बोहिगे तेणे । खित्तम्मि व पडिणीए सेहे वा खिप्पलोए वा' ।।
(नि०भा० ३२१ तथा ८८५) यदि धिग्जात्यादयः पृच्छन्ति-यूयं कथं भुञ्जीध्वम् ? तदा वक्तव्यं वयं भुजीमहि कमढकादिषु । कमढकं नाम करोडकाकारं काष्ठमयं भाजनम् । एवमादिको मृषावाद उड्डाहरक्षार्थं वक्तव्यः । यदि केचिल्लुब्धकादयः पृच्छन्ति-कुतोऽत्र भगवन् ! दृष्टा मृगाः शूकरा वा ? दृष्टेष्वपि न दृष्टा इति, न शृणोमीति वा वक्तव्यं तूष्णीको वा तिष्ठति । एवं संयमहेतोम॒षा वक्तव्यम् । बोधिकगृहीतो वा अब्राह्मणोऽपि ब्राह्मणोऽहमिति ब्रवीति । स्तेनगृहीतो वा भणति-एष सार्थ एति तान् चौरान भणति नश्यत इति । रक्तपटपरिव्राजकादिप्रत्यनीकभावित क्षेत्रे उपासकाः शठतया परमार्थेन वा पृच्छन्ति भगवन् ! यद् वयं रक्तपटादीनां दानं दद्मः, एतस्य फलं किमस्ति न वा ? एवं पृष्टो भणति-दानस्य नास्ति नाश इति । यद्यपि तेषां दानं दत्तमफलं तथाप्येवं वक्तव्यं मा ते रुष्टा अनर्थं कुर्युरिति कृत्वा । शैक्षो वा प्रव्रज्याभिमुख आगतः प्रवृजितो वा तं च स्वजनाः पृच्छन्ति, तत्र जानन्तोऽपि भणन्ति-न जानीमो न वा दृष्ट इति । शैक्षस्य वा अनधिसहिष्णोर्लोचे क्रियमाणे बहावपि तिष्ठति एवं वक्तव्यम्-एष समाप्तो लोचः स्तोकं तिष्ठति । अन्यच्च साधोर्लोचे क्रियमाणे तत्रस्थित एव शक्रो देवराजश्छत्रमभिधारयति । एषा कल्पिका सेवा । इत्युक्तं द्वितीयमहाव्रतातिचारविषयं प्रायश्चित्तम् ।।८१।। सम्प्रति तृतीयमहाव्रतातिचारप्रायश्चित्तं किञ्चिद्विशेषेणाह
तण-डगल-छार-मल्लग पणगं लेवित्तरेसु लहुगो उ । दवादविदिन्ने पुण जिणेहिं उवही उ निष्फन् ।।८।।
(नि०भा० ३३२) व्याख्या-इह अदत्तादानं द्विधा-लौकिकं लोकोत्तरं च । तत्र लौकिकं द्रव्य-क्षेत्र-काल-भावभेदैश्चतुर्द्धा । लोकोत्तरं तु द्विधा-सूक्ष्मं बादरं च । तत्र सूक्ष्मं स्वल्पं बादरं नाम बहुकम् । अथवा यत्र पञ्चकं प्रायश्चित्तं स्यात् तत्सूक्ष्मम् , शेषं बादरम् । अनयोः क्रमेण प्रायश्चित्तम् , तद्यथा-तृणानि कुशादीनि, डगलकानि उपलादीनि, क्षारो भस्म, मल्लकः शरावः, एतेषु अदत्तेषु गृहीतेषु पञ्चकाख्यं प्रायश्चित्तं भवति । लेपो येन भाजनं लिप्यते तस्मिन्नदत्ते गृहीते । इत्तरेसु' त्ति । पन्थानं व्रजन् यत्र वृक्षाधोभागच्छायादिषु विश्राम गृहीतुकामस्तत्रावग्रहं