________________
जइ-जीयकप्पो
अत्राह - ननु एवं प्रतिषेधं कुर्वाणस्य माया मृषावादश्च भवति, ततः कथं संयमशुद्धिः ? उच्यते - नात्र मायामृषावादौ, यतः कारणे तावप्यनुज्ञातौ । कारणं चेदं - तेषां निर्गमनमशुद्धं तेनोपायेनायं प्रतिषेधः कृतः । अगीतार्थानामेषा यतना । गीतानां पुनः स्फुटमेव भण्यते यतस्ते सामाचारीं जानन्तः कथमप्रीत्यादिकं कुर्वन्ति ? तेष्वपि यन्माया - मृषावादकरणं युज्यते तत् कर्त्तव्यम् । अगीतार्थानां पुनः स्फुटं भण्यमानं विद्वेषकरं स्यात् । ते च चिन्तयन्ति - एते च मत्सरेण न ददति श्रुतम्, ततोऽयशः सम्पद्यते । एतेषां च प्रतीच्छनेऽयमपवादः । यस्य निर्गमोऽशुद्धः स यतनया निषिद्धो भणति - मिथ्या मे दुष्कृतं न पुनरेवं करिष्ये, यद्वा भणत तत् करोमि, मुक्तो मया पापभावो दुर्गतिनिबन्धनमिहलोकेऽपि गर्हितः' । एवमुपस्थितः सङ्ग्रहीतव्यः । तत्राऽप्येते न सङ्ग्राह्याः - योऽधिकरणं कृत्वा समागतः यश्च प्रत्यनीको मेऽत्रेत्यागतः, यश्चानुबद्धरोषः येन वाऽऽचार्य एकाकी त्यक्तः । प्रत्यनीके पुनरपि भजना । गृहस्थप्रत्यनीको ग्राह्यः । संयतप्रत्यनीको न सङ्ग्राह्यः । गत्वा तं क्षामयेति वा भणितव्यः । यदि न क्षामयति तदा न सङ्ग्राह्यः । यदि क्षामयति तदा सङ्ग्राह्यः ।। ८० ।। एतत् प्रासङ्गिकमभिधाय पुनः प्रस्तुतद्वितीयमहाव्रतातिचारप्रायश्चित्तशेषमाह -
सावज्जसुबहुपडिणीअ - भासणे विगहकलहकंदप्पे ।
चउलहु सेसे सव्वहिं लहु असमायारिनिष्पन्नं । । ८१ ।।
व्याख्या - सावद्यानि सपापानि यानि वचनानि पापनिबन्धनानि भवन्तीत्यर्थः । अतिबहूनि निरर्थकानि असम्बद्धानि यानि, प्रत्यनीकानि चाऽऽचार्यादि प्रति प्रतिकूलानि यानि हीला - खिंसादिरूपाणि तेषां भाषणे । विकथाश्चतुर्विधाः स्त्रीभक्तदेशराजकथारूपाः । तत्र स्त्रीकथा जातिकुलरूपलावण्यलीलागतिभाषाशृङ्गारवर्णनादिरूपा । तस्यां चात्मपरमोहोदीरणोड्डाहस्वाध्यायसंयमयोगपरिहाणि - ब्रह्मव्रताऽगुप्तिप्रसङ्गादयो दोषा भवेयुः । भक्तकथा नानाप्रकारशाकरसवतीघृतादि - प्रमाणादिवर्णनरूपा । अस्यां चाऽऽहारगृद्धिलोकापवादरसनेन्द्रियाऽजयषड्जीवनिकायवधानुमोदनादयो दोषा भवन्ति । देशकथा नानाविधदेशाचारनेपथ्यभोजनविधिवापीकूपसरोवरादिवर्णनरूपा । एतस्यां च रागद्वेषोत्पत्तिस्वपक्षाधिकरणादयो दोषा प्रादुष्ष्यन्ति । राजकथा बलवाहनकोशकोष्ठागारप्रमाणनिर्गमप्रवेशशोभावर्णनादिरूपा । अस्यां च चौरहेरिकादिशङ्काकौतुकनिदानादयो दोषाः स्युः । एतासु चतुर्विधास्वपि विकथासु । अथवा विरुद्धा पापानुबन्धिनी कथा विकथा । सा च सामान्येनेयम् - इत्यिकहा भत्तकहा रायकहा चोरजणवयकहा य । नडनट्टजल्लमुट्ठिअ कहाओ एसा भवे विकहा' ।। एवंविधायां विकथायाम् । कलहे कलहकारिवचने । यानि वचनानि कामोद्दीपनानि हास्यगर्भाणि परेषां हास्योत्पादकानि वा तानि कन्दर्पः तस्मिन् कन्दर्पे चतुर्लघु । एतेषु सर्वेष्वपि स्थानेषु प्रत्येकं चतुर्लघु