________________
जइ - जीयकप्पो किमुक्तं भवति-आचार्यादयः परस्परं यन्मृदुमधुरभाषया सोपालम्भं वा शिक्षयन्ते एष वा पञ्जरः । यदि वा यत् प्रायश्चित्तचमढनाभिरसामाचार्या निवारणं पूर्वं खरपरुषैस्तर्जयित्वा पश्चात् प्रायश्चित्तप्रदानेन यदसामाचारीतो निवर्त्तनं तत्पञ्जरः । अत्रार्थे शकुनिदृष्टान्तः यथा पअरे शकुनेः शलाकादिभिः स्वच्छन्दगमनं निवार्यत तथा आचार्यादिपुरुषगच्छपअरे सारणाशलाकया असामाचारीरूपोन्मार्गगमनं निवार्यते । अत्र ये संविग्नेभ्यो ज्ञानदर्शनार्थमागता ये च पार्श्वस्थादिभ्यश्चारित्रार्थमागतास्ते सङ्ग्रहीतव्याः । ये पुनः पञ्जरभग्ना ज्ञानदर्शनार्थमागता ये च पार्श्वस्थादिभ्यो ज्ञानदर्शनार्थमागतास्ते न सङ्ग्रहीतव्याः । न च स्फुटं प्रतिषेध्यन्ते । तेषां चेयं प्रतिषेधयतना-यदेतत् सूत्रमर्थं वा यूयमिच्छत तदस्माकं नास्ति । अथ भणति-मयाऽन्यसमीपे श्रुतं यथा युष्माकमेतदस्ति, अथवा भणति-मयैव यूयं वाचनां ददाना श्रुताः । तत आचार्या भणन्ति-सत्यम् , परमिदानीं तदस्माकं शङ्कितं जातं न च शङ्कितं सूत्रमर्थो वा दीयते आगमे प्रतिषिद्धत्वात् । ततोऽन्यत्र गच्छत यत्र निश्शङ्कितं श्रुतं लभध्वे । उक्तं चनत्थेअंमि जमिच्छह सुअं मए आमसंकिअं तं तु । न य संकिअं तु दिज्जइ निस्संकसुए गवेसाहि ।।
(नि०भा० ६३५४, व्य०सू० २७६) एवं पूर्वोक्ता अप्यधिकरणादिदोषनिर्गता यतनया प्रतिषेध्याः । तथाहि-यः सङ्घाटकोद्विग्नः समागतः स भण्यते-अस्माकमपीदृशी सामाचारी-न सङ्घाटकेन विना सज्ञाभूम्यादावपि गन्तुं लभ्यते । योऽनुबद्धवैरः स भण्यते-अस्माकमप्यवश्यं मण्डल्यां समुद्देष्टव्यम् । सूत्रार्थमण्डलीभग्नो भण्यते-अस्माकमियं सामाचारी सूत्रार्थमण्डलीषु यद्यपि न पठति न शृणोति वा तथापि मण्डल्यामुपविष्टस्तिष्ठति न स्वच्छन्देन स्थातुं लभ्यते । आलस्यवान् भण्यते-अस्माकमत्र क्षेत्रे बालग्लानवृद्धा हिण्डन्ते, ततो यदि दिने दिने बहिर्भिक्षाचर्यां करोषि तदा तिष्ठ । यो निर्द्धर्मा स भण्यते-अस्माकमपि यदि दुष्प्रमार्जितादीनि करोति तदा हाडहडं प्रायश्चित्तं प्रदीयते । हाडहडं नाम यत् तत्कालमेव दीयते, न कालहरणं क्रियते । विकृतिलम्पटो भण्यते-अस्माकं योगवाहिना अयोगवाहिना वा विकृतिर्न ग्राह्या । अथवा स यद्यत् कारणं दीपयति तस्य तत्तत् प्रतिलोममुपदिश्यते । उक्तं चइक्कल्लेण न लन्भा वीआरादी वि जयण सच्छंदे । भोअण सुत्तेमंडलि अपदंतेवी निओअंति' ।।
(नि०भा० ६३५५, व्य०सू० २७७) अलसं भणंति बाहिं जइ हिण्डसि अम्ह इत्थ बालाई । पच्छित्तं हाडहडं अविउस्सग्गं तहा विगई' ।।
(नि०भा० ६३५६, व्य०सू० २७८)
A. प्रवचनोक्तैर्वचनैः खिसनं करोति ।