________________
जइ-जीयकप्पो
शरणमुपागतं परित्यजत, युष्मच्छरणमागतोऽप्यहं युष्माभिः शिक्षाया अप्रसादतस्त्यक्तः । न चैतद् भगवतां परमकरुणापरीतचेतसामुचितं तस्मात् प्रसादमाधाय मामपि सीदन्तं शिक्षयध्वमित्येष इत्थम्भूतः प्रतिग्राह्यः । एषाऽऽवश्यकमधिकृत्य परीक्षा । एवं स्वाध्यायेऽपि हीनमधिकं विपरीतं च करोति । स्वाध्याये च हीनता नाम यद्यप्राप्तायामपि कालवेलायां कालप्रतिक्रमणं करोति । अधिकता च यद्यतिक्रान्तायामपि कालवेलायां कालं न प्रतिक्रामति । वन्दनादिक्रियां वा तदनुगतां हीनाधिकां करोति । विपरीतता तु पौरुषीपाठ्यमतिक्रान्तायां पौरुष्यां पठति । उत्कालिकं पौरुष्यामिति । प्रतिलेखनेऽप्येवमेव कालतो हीनामधिकां वा प्रतिलेखनां करोति । खोटकादिभिर्वा हीनाधिकां विपरीतां वा करोति । विपरितता नाम प्रभाते यन्मुखपोतिकादिक्रमेण न प्रत्युपेक्षते किन्तु स्वेच्छया, यदि वा पूर्वाह्नणे रजोहरणं निष्पश्चिमं प्रत्युपेक्षते अपराह्णे तु सर्वप्रथममित्यादि । तथा भोजने आलोकादिविधिना सूत्रोक्तेन न भुङ्क्ते, दोषैर्वा काकशृगालखादितादिभिः, असुरसुरं अचवचवं अद्दुअमविलम्बिअमित्यादिविपरीतरूपैर्वा भुङ्क्ते । भाषायां या गृहस्थभाषा ढढरभाषा स्थूरस्वरभाषा च तां भाषते । वीचारे स्थण्डिले सामाचारीं पादप्रमार्जनडगलकग्रहणदिगालोकनादिरूपां विलुम्पति । तथा ग्लानं न प्रतिजागर्ति, नाऽपि ग्लानस्य खेलमल्लकादिकं समर्पयति । भिक्षाग्रहणे च अभणितः सन् भिक्षां न हिण्डते, भणितोऽपि वा अर्द्ध हिण्डिते प्रतिनिवर्त्तते, अनेषणीयां वा भिक्षां गृह्णाति, कोण्टलेन वोत्पादयति । एतेषु च स्थानेषु स्वशिष्यान्नोदयन्ति न तु तं परीक्ष्यमाणमित्यादि प्राग्वत् । स चोपसम्पद्यमानः संविग्नेभ्यः पार्श्वस्थादिभ्यो वा समागतो भवेत् । तत्र यः संविग्नेभ्यः समागतः स ज्ञानदर्शनार्थं पअरभग्नो वा समागतः । यः पुनः पार्श्वस्थादिभ्यः समायातः स चारित्रार्थमुद्यन्तुकामोऽनुद्यन्तुकामो वा ज्ञानदर्शनार्थमायातः । अथवा संविग्नेभ्यो यः समागतः स पञ्जरभग्नः । यः पुनः पार्श्वस्थादिभ्यः समायातः स पञ्जराभिमुखः । एतयोर्द्वयोरपि समागतयोरावश्यकादिभिः पदैराचार्येण परीक्षा कर्त्तव्या । एवं शिष्येणाऽप्यावश्यकादिभिः पदैराचार्यस्य परीक्षा कर्त्तव्या । सा चैवम् - आवश्यकादिषु पदेषु मध्ये क्वापि यदि गच्छवासिनः कानपि सीदतः पश्यति, तत आचार्येभ्यः कथयति, तेन कथिते सति यद्याचार्याः सम्यक् प्रतिपद्य तान् प्रमादिनः प्रतिनोदयन्ति प्रायश्चित्तं च प्रयच्छन्ति । ततस्तत्रोपसम्पत्तव्यम् । अथ कथितेऽप्याचार्यास्तूष्णीं तिष्ठन्ति, भणन्ति वा किं तव ? यद्येते न सम्यग्वर्त्तन्ते, तर्हि अन्यत्र गच्छान्तरे उपसम्पत्तव्यं न तत्र । पञ्जरस्य चेदं स्वरूपम् -
सउणिदिट्टंतो' ।।
घणगाइसंगहो होइ पंजरो जा य सारणान्नुण्णं । पच्छित्तचमढणाहिं निवारणं (नि० भा० ६३५०, व्य०सू० २७२ ) पञ्चकं नाम आचार्योपाध्यायप्रवर्त्तिस्थविरगणावच्छेदकरूपम्, आदिशब्दात् भिक्षवो वृषभाः क्षुल्लका वृद्धाः परिगृह्यन्ते । तेषां सङ्ग्रहः पञ्चकादिसङ्ग्रहो भवति पञ्जरः । अथवा या आचार्यादीनामन्योऽन्यं परस्परं सारणा, A. महाध्वनि भाषा । B. कोंटलय (देश्यशब्दः) ज्योतिषसम्बन्धिसूचना, शकुनादिनिमित्तसम्बन्धि सूचना ।