________________
जइ-जीयकप्पो व्याख्या - यः श्रमणैः सहाधिकरणं कृत्वा समागतः, यश्च तत्र मे प्रत्यनीकः साधुरिति कृत्वा समायातः, यश्च लुब्धो यश्चानुबद्धरोषः । एतेषां चतुर्णां प्रायश्चित्तं चत्वारो गुरुमासाः । शेषाणां षण्णां विकृतिलम्पट - योगभीरुस्तब्ध - निर्द्धर्मा - ऽलस - स्वच्छन्दमतीनां गृहिभण्डनकारिणश्च चतुर्लघुकाः । यः पुनराचार्यस्तदाचार्याननुज्ञया प्रायश्चित्तदानमन्तरेण च प्रतीच्छति तस्यापि प्रायश्चित्तमेवमेव । तद्यथा श्रमणाधिकरणकारि - प्रत्यनीक - लुब्धाऽनुबद्धरोषान् प्रतीच्छतश्चत्वारो गुरुमासाः । शेषान् षट् प्रतीच्छतश्चत्वारो लघुमासाः ।। ७९ । अथाधिकरणादियथोक्तदोषरहितो यः समागतो भवेत् सोऽपि त्रीणि दिनानि परीक्ष्य सङ्ग्रहीतव्यः, यदि पुनः परीक्षां न कुर्वन्ति ततश्चतुर्लघु । अन्याचार्याभिप्रायेण वा मासलघु । सा च परीक्षा उभयथापि । शिष्य आचार्यं परीक्षते, आचार्यः शिष्यम् । सा पुनः परीक्षा यैः पदैः क्रियते तान्याह—
आवस्सय सज्झाए पडिलेहण भुंजणे अ भासाए । वीआरे गेलन्ने भिक्खग्गहणे परिच्छंति । । ८० ।।
(नि० भा० ६३४३, व्य०सू० २६५ )
व्याख्या - आवश्यके स्वाध्याये प्रतिलेखने भोजने भाषायां वीचारे बहिर्भूमौ ग्लाने भिक्षाग्रहणे च परस्परमाचार्यशिष्यौ परीक्षेते । तत्रावश्यके शिष्यमित्थं परीक्षन्ते आचार्या : - आवश्यकं हीनं करोति, हीनं नाम यत् कायोत्सर्गसूत्राणि मन्दं मन्दमुच्चार्य शेषसाधुषु चिरकालं कायोत्सर्गस्थितेषु पश्चात् कायोत्सर्गे तिष्ठति इत्यादि । अधिकं वा करोति । अधिकं नाम कायोत्सर्गसूत्राण्यतित्वरितमुच्चार्यानुप्रेक्षाकरणार्थं पूर्वमेव कायोत्सर्गे तिष्ठति । रत्नाधिकेन चोत्सारिते कायोत्सर्गे पश्चाच्चिरेण स्वं कायोत्सर्गमुत्सारयति इत्यादि । विपरीतं वा करोति, विपरीतं नाम प्रादोषिकान् कायोत्सर्गान् प्राभातिकानिव करोति, प्राभातिकान् प्रादोषिकानिव । अथवा सूर्येऽस्तमितमात्रे एव निर्व्याघाते सर्वैरपि साधुभिराचार्येण सह प्रतिक्रमितव्यम् । यदि पुनराचार्यस्य श्राद्धादिधर्मकथादिभिर्व्याघातस्ततो बालवृद्धग्लानासान् निषद्याधरं च मुक्त्वा शेषैः सूत्रार्थस्मरणार्थं कायोत्सर्गेण स्थातव्यम् । ये पुनः सत्यपि बले पूर्वं कायोत्सर्गे न तिष्ठन्ति तान् पूर्वमतिष्ठतो नोदयन्त्याचार्याः । यः पुनः परीक्ष्यते तं प्रमाद्यन्तमपि न शिक्षयन्ति, ततो यदि स एवं व्यवस्यति - यथाऽऽत्मीयान् प्रमाद्यतो नोदयन्ति, न मामिति सुखमिह वस्तुमिति । स इत्थम्भूतः पञ्जरभग्नो ज्ञातव्यो न प्रतीच्छनीयः । यः पुनरप्रतिनोद्यमानः सन्नेवं चिन्तयति - येषु स्थानेष्वहं प्रमाद्यामि तेष्वेव स्थानेष्वात्मीयान् शिष्यान् प्रमाद्यतो नोदयन्त्याऽऽचार्या न माम् । अहो ! अहमनाथः परित्यक्त एतैरिति चिन्तयित्वा संविग्नविहारमिच्छन् स्वयमेव ततः प्रमादस्थानान्निवर्त्तते । अथवा छिन्नमुक्तावलीप्रकाशान्यश्रूणि विमुञ्चन् आचार्याणां पादयोः पतित्वा शिक्षां मार्गयति - यथा मामप्यत्यादरेण भगवन्तः शिक्षयन्तां मा मां